Sunday, March 18, 2018

श्रीरामोदन्त: बालकाण्डः १३-१८

*श्रीरामोदन्त:*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*तदाकर्ण्य सुरै: साकं प्राप्य दुग्धोदधेस्तटम् ।*
*तुष्टाव च हृषीकेशं विधाता विविधै: स्तवै: ॥१३॥*

*पदविभाग:*

तदा आकर्ण्य सुरै: साकं प्राप्य दुग्धोदधे: तटम् तुष्टाव च हृषीकेशं विधाता विविधै: स्तवै:

*अन्वय:*

तदा आकर्ण्य विधाता
सुरै: साकं  दुग्धोदधे: तटम्
प्राप्य च हृषीकेशं  विविधै: स्तवै: तुष्टाव ।

*तात्पर्यम्*
यदा देवा: विधातारम् उक्तवन्त: तदा स: तत् श्रृत्वा सुरै: सह दुग्धोदधे: तटम् प्राप्य श्रीमहाविष्णुम् नानाविध स्तवै: सन्तुष्टवान् ।

*व्याकरणम्*
♦सन्धि:
तदा + आकर्ण्य - सवर्णदीर्घसन्धि:
दुग्धिदधे: + तटम् - विसर्ग सकार:

हृषीकेश: - हृषीकानाम् ईश: षष्ठीतत्पुरुष:

तुष्टाव - स्तु धातु: परस्मैपदि धातु: लिट् लकार: प्रथमपुरुष:
तुष्टाव-तुष्टुवतु:-तुष्टुवु:

*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*आविर्भूयाथ दैत्यारि: पप्रच्छ च पितामहम् ।*
*किमर्थमागतोसि त्वं*
*साकं देवगणैरिति ॥ १૪॥*

*पदविभाग:*

आविर्भूय अथ दैत्यारि: पप्रच्छ च पितामहम्
किमर्थम् ‍अ‍ागत: आसि त्वं
साकं देवगणै: इति

*अन्वय:*

अथ आविर्भूय  दैत्यारि:
पितामहम् किमर्थम् त्वं देवगणै: साकं च अ‍ागत: आसि इति पप्रच्छ ।

*तात्पर्यम्*

ब्रह्मा देवगणै: सह महाविष्णुम् मेलितुम् गतवान् । अत्र महाविष्णु:  तेषां मध्ये आविर्भूय *"पितामह ! त्वं किमर्थम् देवगणै: सह अत्र अगत:"* इति पृष्टवान् ।

*व्याकरणम्*
♦सन्धि:
आविर्भूय + अथ - सवर्णदीर्घसन्धि:
अगत: + असि - विसर्ग उकार: पूर्वरूपसन्धि:
देवगणै: + इति - विसर्ग रेफ:

♦समास:
दैत्यारि: - दैत्यानाम् अरि: -   षष्ठीतत्पुरुष:

*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*ततो दशाननात् पीडाम् अजस्तस्मै न्यवेदयत् ।*
*तच्छ्रुत्वोवाच धातारं हर्षयन् विष्टरश्रवा: ॥१५॥*

*पदविभाग:*

तत: दशाननात् पीडाम् अज: तस्मै न्यवेदयत्
तत् श्रृत्वा उवाच धातारं हर्षयन् विष्टरश्रवा:

*अन्वय:*

तत: अज: दशाननात् पीडाम्  तस्मै न्यवेदयत् ।
तत् श्रृत्वा विष्टरश्रवा: हर्षयन् धातारं  उवाच ।

*तात्पर्यम्*
पश्चात् ब्रह्मा रावणात् पीडाम् अवदत् । तत् श्रृत्वा श्रीविष्णु:  हर्षयन् धातारम् अवदत् ।

*व्याकरणम्*
♦सन्धि:
तत: + दशाननात् - विसर्ग उकार:
अज: + तस्मै - विसर्गसकार:
तत् + श्रृत्वा - छत्वसन्धि:
श्रृत्वा + उवाच - गुणसन्धि:

न जायते इति अज: (ब्रह्मा)
विष्टरश्रवा: - महाविष्णु:
उवाच - *ब्रू* परस्मैपदि धातु: लिट् लकार प्रथमपुरुष:
_उवाच-ऊचतु:-ऊचु:_

*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_

*मूल श्लोक:*
*अलं भयेनात्मयोने ! गच्छ देवगणै: सह ।*
*अहं दाशरथिर्भूत्वा हनिष्यामि दशाननम् ॥१६॥*

*पदविभाग:*

अलं भयेन आत्मयोने ! गच्छ देवगणै: सह अहं दाशरथि: भूत्वा हनिष्यामि दशाननम्

*अन्वय:*

हे आत्मयोने ! अलं भयेन।   (त्वम् ) देवगणै: सह गच्छ । अहं दाशरथि: भूत्वा दशाननम् हनिष्यामि  ।

*तात्पर्यम्*

हे अज! भयम् मास्तु । त्वं देवगणै: सह गच्छ । अहं दशरथस्य पुत्ररूपेण जनित्वा दशाननं हनिष्यामि ।

*व्याकरणम्*
♦सन्धि:
भयेन + आत्मयोने - सवर्णदीर्घसन्धि:
दाशरथि: + भूत्वा - विसर्ग रेफ:

दशरथस्य अपत्यं पुमान् दाशरथि:
🏹🏹🏹🏹🏹🏹

~ ✍ *शरवण:*

*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*आत्मांशैश्च सुरा: सर्वे भूमौ वानररूपिण: ।*
*जायेरन् मम साहाय्यं कर्तुं रावणनिग्रहे ॥१७॥*

*पदविभाग:*
आत्मांशै: च सुरा: सर्वे भूमौ वानररूपिण: जायेरन् मम साहाय्यं कर्तुं रावणनिग्रहे

*अन्वय:*

रावणनिग्रहे मम साहाय्यं कर्तुं सुरा: सर्वे आत्मांशै: च  भूमौ वानररूपिण: जायेरन् ।
*तात्पर्यम्*

सर्वे देवा: अपि  आत्मांशै: च भूमौ रावणनिग्रहे मम साहाय्यं कर्तुं वानररूपिण: (इव) जायेरन्  ।

व्याकरणम्
♦सन्धि:
आत्मांशै: + च - विसर्गसकार:

जायरेन् - जन् आत्मनेपदि धातु:
विधिलिङ् प्रथमपुरुष:
जायेत-जायेयाताम् -जायेरन्

मूल श्लोक:

एवमुक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः ।
पद्मयोनिस्तु गीर्वाणैः समं प्रायात्प्रहृष्टधीः ॥१८॥

पदविभाग:
एवम् उक्त्वा विधातारं तत्र एव अन्तर्दधे प्रभुः  पद्मयोनिः तु गीर्वाणैः समं प्रायात् प्रहृष्टधीः

अन्वय:
एवम् विधातारं उक्त्वा प्रभुः तत्र एव अन्तर्दधे । पद्मयोनिः तु प्रहृष्टधीः गीर्वाणैः समं प्रायात् ।

तात्पर्यम्
महाविष्णु: एवं समाधान वाक्यम उक्तवा तत्र एव अन्तर्गत: । महाविष्णो: वाक्येन सन्तुष्ट ब्रह्मा सन्तोषेण देवा: सह प्रायात् ।

व्याकरणम्
♦सन्धि:
पद्मयोनिः + तु - विसर्गसकार:

♦समास:
पद्मयोनिः - पद्मं योनि: यस्य स: बहुव्रीहि:

प्रायात् - या धातु: परस्मैपदि लङ लकार: प्रथमपुरुष:
_अयात्- अयाताम्- अयान्/अयु:_
प्र + अयात् = प्रायात्


Friday, March 9, 2018

श्रीरामोदन्तम् बालकाण्ड: १-१२

श्रीकान्तो मातुलो यस्य​ जननी सर्वमंगला।
जनकः शंकरो देवः तम् वन्दे कुंजराननम्॥


यो दण्डकारण्यनिशाचरेन्द्रान्

कोदण्डलीलाविषयीचकार ।
वेतण्डशुण्डायितबाहुदण्ड: कोदण्डप‍ाणि: कुलदैवतं न: ॥

अद्यत: श्रीरामोदन्तम् (श्रीराम चरितम्) श्लोकानाम् अनवयम् प्रतिदिनं प्रषयिष्यामि ।

~ ✍ शरवण:



श्रीरामोदन्तम्
अथ बालकाण्ड:



मूल श्लोक:श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसम् ।
श्रीरामोदन्तमाख्यास्ये श्री वाल्मीकि प्रकीर्तितम् ॥१॥

पदविभाग:

श्रीपतिं प्रणिपत्य अहं श्रीवत्साङ्कितवक्षसम्
श्रीरामोदन्तम् आख्यास्ये श्री वाल्मीकि प्रकीर्तितम्

अन्वय:
अहं श्रीवत्स अङ्कित वक्षसम्    श्रीपतिं प्रणिपत्य श्री वाल्मीकि प्रकीर्तितम् श्रीरामोदन्तम् आख्यास्ये ।

तात्पर्यम्

अहं श्रीवत्स अङ्कित वक्षसम् श्रीपतिं विष्णुं नमस्कृत्य श्री वाल्मीकिना पूर्वं उक्तं श्रीरामोदन्तं नाम कथां वदिष्यामि ।

व्याकरणम्
♦सन्धि:
श्रीवत्स + अङ्कित - सवर्णदीर्घसन्धि:
♦समास:
श्रीपति - श्रिय: पति : षष्ठीतत्पुरुष:
आख्यास्ये - लृट् लकार: उपु. एक
आत्मनेपदि धातु:
आख्यास्ये - आख्यास्यावहे - आख्यास्यामहे



मूल श्लोक:
पुरा विश्रवस: पुत्रो रावणो नाम राक्षस: ।
आसीदस्यानुजौ चास्तां कुम्भकर्णविभिषणौ ॥२॥

पदविभाग:

पुरा विश्रवस: पुत्र: रावण: नाम राक्षस: आसीत् अस्य अनुजौ च आस्तां कुम्भकर्ण: विभिषण:

अन्वय:
पुरा विश्रवस: पुत्र: रावण: नाम राक्षस: आसीत् तस्य  कुम्भकर्ण: विभिषण: (नाम) अनुजौ च आस्ताम् ।

तात्पर्यम्
पूर्वं विश्रवस: नाम मुनि: आसीत् । स: पुलसत्यस्य पुत्र: ।
विश्रवस: मुनये कलत्रद्वयमासीत् । ते नाम कैकसी इडाविडा । रावण: कुम्भकर्ण: विभिषण:  च कैकेसीया:  पुत्रा: । सूर्पनखा तेषाम् सहोदरी । कुबेर: इडाविडाया: पुत्र: आसीत् ।

व्याकरणम्
♦सन्धि:
पुत्र: + रावण: विसर्ग उकार:
रावण: + नाम -
विसर्ग उकार:
च + आस्ताम् - सवर्णदीर्घसन्धि:



मूल श्लोक:
ते तु तीव्रण तपसा प्रत्यक्षीकृत्य वेधसम् ।
वव्रिरे च वरानिष्टान् अस्मादाश्रितवध्सलात् ॥३॥

पदविभाग:
ते तु तीव्रण तपसा प्रत्यक्षीकृत्य वेधसम् वव्रिरे च वरान् इष्टान् अस्मात् ‌आश्रितवध्सलात् ।

अन्वय:
ते तीव्रण तपसा प्रत्यक्षीकृत्य अस्मात् आश्रितवध्सलात् वेधसम् इष्टान्  वरान् च वव्रिरे ।

तात्पर्यम्
रावण: तस्य अनुजौ सह तपस् आश्रितवान् । अत: तेषां मधये ब्रह्मा प्रत्यक्षीकृतवान् । तत: ते इष्टान् वरान् वव्रिरे ।

व्याकरणम्
♦सन्धि:
अस्मात् +  आश्रितवध्सलात् - जश्त्वसन्धि:
♦वव्रिरे - वृ धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
वव्रे - वव्राते - वव्रिरे
प्रत्यक्षीकृत्य - प्रति + अक्षि: + कृत्य



मूल श्लोक:
रावणो मानुषादन्यै: अवध्यत्वं तथाsनुज: ।
निर्देवत्वेच्छया निद्रां कुम्भकर्णोsवृणीत च ॥૪॥

पदविभाग:
रावण: मानुषादन्यै: अवध्यत्वं अवृणीत तथा अनुज: च
निर्देवत्व इच्छया निद्रां कुम्भकर्ण:

अन्वय:
रावण: मानुषादन्यै: अवध्यत्वं अवृणीत तथा अनुज: कुम्भकर्ण: च
निर्देवत्व इच्छया निद्रां  (अवृणीत)।

तात्पर्यम्
रावण: मानुषादन्यै: अवध्यत्वं वरं प्रापतवान् । तस्य सहोदर: कुम्भकर्ण:
निर्देवत्व भावं इच्छया स: निद्रावत्वं वरं प्राप्तवान् । अत: स: सर्वदा निद्रां कृतव‍ान् ।

व्याकरणम्
♦सन्धि:
रावण: + मानुषादन्यै: - विसर्ग उकार:
कुम्भकर्ण: + अवृणीत - विसर्ग उकार:
अवध्यत्वं - अवध्यस्य भाव:
निष्क्रान्त: देवेभ्य: - निर्देव: - निर्देवस्य भाव: निर्देवत्वम्
अवृणीत - अात्मनेपदि वृ धातु लङ् लकार प्रथमपुरुष: एकवचनम्
अवृणीत-अवृणाताम्-अवृणत



मूल श्लोक:
विभीषणो विष्णुभक्तिं वव्रे सत्वगुणान्वित: ।
तेभ्य एतान् वरान् दत्वा तत्रैवान्तर्दधे प्रभु: ॥५॥

पदविभाग:
विभीषण: विष्णुभक्तिं वव्रे सत्वगुणान्वित: तेभ्य: एतान् वरान् दत्वा तत्रैव अन्तर्दधे प्रभु:

अन्वय:
सत्वगुणान्वित: विभीषण: विष्णुभक्तिं वव्रे । तेभ्य: एतान् वरान् दत्वा प्रभु: तत्रैव अन्तर्दधे ।

तात्पर्यम्
रावणस्य सहोदर: विभीषण: स: सत्वगुण सम्पन्न: आसीत् । स: विष्णुभक्तिं प्रार्थीतवान् । तेभ्य: (रावण: कुम्भकर्ण: विभीषण: )एतान् वरान् दत्वा ब्रह्मा तत्रैव अन्तर्दधे ।

व्याकरणम्
♦सन्धि:
विभीषण: + विष्णुभक्तिं - विसर्ग उकार:
अन्तर्दधे - अन्त: + दधे - विसर्गरेफ:
तेभ्य: + एतान् - विसर्गलोप:
♦समास:
सत्वगुणै: अन्वित: - तृतीयातत्पुरुष:
दधे - धा आत्मनेपदि धातु:
लिट् लकार: प्रथमपुरुष:
दधे-दधाते- दधिरे
वव्रिरे - वृ धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
वव्रे - वव्राते - वव्रिरे




मूल श्लोक:
रावणस्तु ततो गत्वा रणे जित्वा धनाधिपम् ।
लङ्कापुरीं पुष्पकं च हत्वा तत्रावसत् सुखम् ॥६॥

पदविभाग:
रावण: तु तत:  गत्वा रणे जित्वा धनाधिपम्
लङ्कापुरीं पुष्पकं च हत्वा तत्र अवसत् सुखम्

अन्वय:
तत: रावण: लङ्कापुरीं गत्वा धनाधिपम्  रणे जित्वा  पुष्पकं च हत्वा तत्र सुखम् अवसत्  ।

तात्पर्यम्
रावण: वरं प्राप्तवान् । तदनन्दरं स: लङ्क‍ापुरीं गतवान् । तत्र स: धनाधिपतिं जित्व‍ा पुष्पकविमानं च हत्वा तत्रैव सुखम् अवसत् ।

व्याकरणम्
♦सन्धि:
रावण: + तु - विसर्ग सकार:
तत: + गत्वा - विसर्ग उकार:
तत्र + अवसत् - सवर्णदीर्घसन्धि:
♦समास:
धनाधिपम् - धनस्य अधिपति: - तम् षष्ठितत्पुरुष:



मूल श्लोक:
यातुधानास्तत: सर्वे रसातलनिवासिन: ।
दशाननं समाश्रित्य लङ्कां च सुखमावसन् ॥७॥

पदविभाग:
यातुधाना: तत: सर्वे रसातल निवासिन:

दशाननं समाश्रित्य लङ्कां च सुखम् आवसन्

अन्वय:
यातुधाना: सर्वे रसातलनिवासिन: । तत: (ते) दशाननं समाश्रित्य लङ्कां च सुखम् आवसन् ।

तात्पर्यम्
राक्षसा: पाताललोके अवसन् । यदा रावण: कुबेरं जित्वा लङ्काम् अवसत् तदा ते रावणं समाश्रित्य लङ्का नगरे सुखम् अावसन् ।


व्याकरणम्
♦सन्धि:
यातुधाना: + तत: -विसर्ग सकार:
आ+अवसन् - सवर्णदीर्घसन्धि:
♦समास:
दशानन: - दश आननानि यस्य स: - व्यधिकरणबहुव्रीहि:



मूल श्लोक:
मन्दोदरीं मयसुतां परिणीय दशानन: ।
तस्यासुत्पादयामास मेघनादाह्वयं सुतम् ॥८॥

पदविभाग:
मन्दोदरीं मयसुतां परिणीय दशानन:
तस्या: उत्पादयामास मेघनाद आह्वयं सुतम्

अन्वय:
दशानन: मयसुतां मन्दोदरीं परिणीय तस्या: मेघनाद आह्वयं सुतम् उत्पादयामास ।

तात्पर्यम्
मय नाम एक: राक्षस: आसीत् । स: असुराणां नायक: । तस्य पुत्री मन्दोदरी । दशानन: रावण: ताम् विवाहं कृतवान् । पश्चात् मेघनाद नाम सुतं उत्पादयामास ।


व्याकरणम्
♦सन्धि:
तस्या: + उत्पादयामास - विसर्ग सकार:
मेघनाद + आह्वयम् - सवर्णदीर्घसन्धि:
♦समास:
मन्दोदरी - मन्दम् उदरं यस्या: सा - मन्दोदरी - समानाधिकरण बहुव्रीहि:
मेघस्य नाद इव नाद: यस्य स: - मेघनाद: - बहुव्रीहि:
परिणीय - परि +नीत्वा।



मूल श्लोक:
रसां रसतलं चैव विजित्य स तु रावण:।
लोकानाक्रमयन् सर्वान् जहार च विलासिनी: ॥९॥

पदविभाग:
रसां रसतलं च एव विजित्य स: तु रावण:
लोकान् आक्रमयन् सर्वान् जहार च विलासिनी:

अन्वय:
स: रावण: रसां रसतलं च एव विजित्य सर्वान् लोकान् आक्रमयन् विलासिनी: च जहार ।

तात्पर्यम्
लङ्गा नृप: रावण: रसां पातालं च जीतवान् । पश्चात् स: सर्वान् लोकान् आक्रमयन् महिला: च अपहरितवान् ।

व्याकरणम्
♦सन्धि:
च + एव - वृद्धिसन्धि:
स: + तु - विसर्गलोप:
विजित्य - वि + जि + ल्यप्
जहार - हृ धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
जहार - जह्रतु: जह्रु:।




मूल श्लोक:
दूषयन् वैदिकं कर्म द्विजानर्दयति स्म स:।
आत्मजेन ततो युद्धे वासवं चाप्यपीडयेत् ॥ १०॥


पदविभाग:
दूषयन् वैदिकं कर्म द्विजान् अर्दयति स्म स:
आत्मजेन तत: युद्धे वासवं च अपि अपीडयत्

अन्वय:
स: वैदिकं कर्म दूषयन् द्विजान् अर्दयति स्म । तत: (तस्य) आत्मजेन युद्धे वासवं च अपि अपीडयत् ।

तात्पर्यम्
रावण: वैदिककर्मं दूषितवान् । द्विजान् अर्दयति स्म । पश्चात् तस्य पुत्रेण युद्धे इन्द्रम् अपि अपीडयत् ।

व्याकरणम्
♦सन्धि:
तत: + युद्धे - विसर्ग उकार:
च + अपि - सवर्णदीर्घसन्धि:
अपि + अपीडयत् - यण्सन्धि:
♦समास:
द्वि: जायन्ते इति द्विजा: बहुव्रीहि: ।



मूल श्लोक:
तदीयतरुरत्नानि पुनरानाय्य किङ्करै: ।
स्थापयित्वा तु लङ्कायाम् अवसच्च चिराय स: ॥११॥


पदविभाग:
तदीय तरुरत्नानि पुन: आनाय्य किङ्करै:
स्थापयित्वा तु लङ्कायाम् अवसत् च चिराय स:

अन्वय:
तदीय किङ्करै: तरुरत्नानि पुन: आनाय्य: स्थापयित्वा च तु स: लङ्कायाम् चिराय अवसत् ।

तात्पर्यम्
रावण: तस्य किङ्करै: कल्पकवृक्ष: पुन: आनाय्य स्थापितवान् । अत: स: लङ्कायां बहुकालम् अवसत् ।

व्याकरणम्
♦सन्धि:
पुन: + आनाय्य - विसर्ग रेफ:
अवसत् + च - श्चुत्वसन्धि:



*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*ततस्तस्मिन्नवसरे विधातारं दिवौकस: ।*
*उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥१२॥*


*पदविभाग:*

तत: तस्मिन् अवसरे विधातारं दिवौकस: 
उपगम्य उचिरे सर्वं रावणस्य विचेष्टितम् 

*अन्वय:*

तत: तस्मिन् अवसरे विधातारं दिवौकस: 
उपगम्य  रावणस्य विचेष्टितम् सर्वं  उचिरे ।

*तात्पर्यम्*
पश्चात् तस्मिन समये देवा: ब्रह्मा समीपे गत्वा  रावणस्य विचेष्टितम् सर्वं उक्तवन्त: ।

*व्याकरणम्*
♦सन्धि:

तत: + तस्मिन् - विसर्ग सकार:
तस्मिन् + अवसरे - ङमुडागमन सन्धि:
उपगम्य + उचिरे - गुणसन्धि:
 
♦समास:
दिवौकस: - द्यो: ओक: येषाम् ते बहुव्रीहि:

ऊचिरे - *ब्रू* आत्मनेपदि धातु: लिट् लकार: प्रथमपुरुष:
_ऊचे-ऊचाते-ऊचिरे_

🏹🏹🏹🏹🏹🏹

~ ✍ *शरवण:*

Tuesday, March 6, 2018

अमोघ शिव कवचम्

।।श्रीगणेशाय नम:।।

विनियोगः-

ॐ अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्मा ऋषि: अनुष्टप् छन्द:।
श्रीसदाशिवरुद्रो देवता।
ह्रीं शक्‍ति:।
रं कीलकम्।
श्रीं ह्री क्लीं बीजम्।
श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोग:।

कर-न्यास: -

ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ ह्लांसर्वशक्तिधाम्ने ईशानात्मने अंगुष्ठाभ्यां नम: ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ नं रिं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नम: ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ मं रुं अनादिशक्‍तिधाम्ने अघोरात्मने मध्यामाभ्यां नम: ।

ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ शिं रैं स्वतंत्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नम: ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ वांरौं अलुप्तशक्तिधाम्ने सद्यो जातात्मने कनिष्ठिकाभ्यां नम: ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐयंर: अनादिशक्तिधाम्ने सर्वात्मने करतल करपृष्ठाभ्यां नम:।

॥ अथ ध्यानम् ॥

वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् ।
सहस्रकरमत्युग्रं वंदे शंभुमुपतिम् ॥ १ ॥

।।ऋषभ उवाच।।

अथापरं सर्वपुराणगुह्यं निशे:षपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवं कवचं हिताय ते ॥ २ ॥

नमस्कृत्य महादेवं विश्‍वव्यापिनमीश्‍वरम्।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ ३ ॥

शुचौ देशे समासीनो यथावत्कल्पितासन: ।
जितेन्द्रियो जितप्राणश्‍चिंतयेच्छिवमव्ययम् ॥ ४ ॥

ह्रत्पुंडरीक तरसन्निविष्टं स्वतेजसा व्याप्तनभोवकाशम् ।
अतींद्रियं सूक्ष्ममनंतताद्यंध्यायेत्परानंदमयं महेशम् ॥ ५ ॥

ध्यानावधूताखिलकर्मबन्धश्‍चरं चितानन्दनिमग्नचेता: ।
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ ६ ॥

मां पातु देवोऽखिलदेवत्मा संसारकूपे पतितं गंभीरे
तन्नाम दिव्यं वरमंत्रमूलं धुनोतु मे सर्वमघं ह्रदिस्थम् ॥ ७ ॥

सर्वत्रमां रक्षतु विश्‍वमूर्तिर्ज्योतिर्मयानंदघनश्‍चिदात्मा ।
अणोरणीयानुरुशक्‍तिरेक: स ईश्‍वर: पातु भयादशेषात् ॥ ८ ॥

यो भूस्वरूपेण बिर्भीत विश्‍वं पायात्स भूमेर्गिरिशोऽष्टमूर्ति: ॥
योऽपांस्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्य: ॥ ९ ॥

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलील: ।
स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥ १० ॥

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणि: ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्र: प्राच्यां स्थितं रक्षतु मामजस्त्रम् ॥ ११ ॥

कुठारवेदांकुशपाशशूलकपालढक्काक्षगुणान् दधान: ।
चतुर्मुखोनीलरुचिस्त्रिनेत्र: पायादघोरो दिशि दक्षिणस्याम् ॥ १२ ॥

कुंदेंदुशंखस्फटिकावभासो वेदाक्षमाला वरदाभयांक: ।
त्र्यक्षश्‍चतुर्वक्र उरुप्रभाव: सद्योधिजातोऽवस्तु मां प्रतीच्याम् ॥ १३ ॥

वराक्षमालाभयटंकहस्त: सरोज किंजल्कसमानवर्ण: ।
त्रिलोचनश्‍चारुचतुर्मुखो मां पायादुदीच्या दिशि वामदेव: ॥ १४ ॥

वेदाभ्येष्टांकुशपाश टंककपालढक्काक्षकशूलपाणि: ॥
सितद्युति: पंचमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाश: ॥ १५ ॥

मूर्धानमव्यान्मम चंद्रमौलिर्भालं ममाव्यादथ भालनेत्र: ।
नेत्रे ममा व्याद्भगनेत्रहारी नासां सदा रक्षतु विश्‍वनाथ: ॥ १६ ॥

पायाच्छ्र ती मे श्रुतिगीतकीर्ति: कपोलमव्यात्सततं कपाली ।
वक्रं सदा रक्षतु पंचवक्रो जिह्वां सदा रक्षतु वेदजिह्व: ॥ १७ ॥

कंठं गिरीशोऽवतु नीलकण्ठ: पाणि: द्वयं पातु: पिनाकपाणि: ।
दोर्मूलमव्यान्मम धर्मवाहुर्वक्ष:स्थलं दक्षमखातकोऽव्यात् ॥ १८ ॥

मनोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनांतकारी ।
हेरंबतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्‍वरो मे ॥ १९ ॥

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्‍वरोऽव्यात् ।
जंघायुगंपुंगवकेतुख्यातपादौ ममाव्यत्सुरवंद्यपाद: ॥ २० ॥

महेश्‍वर: पातु दिनादियामे मां मध्ययामेऽवतु वामदेव: ॥
त्रिलोचन: पातु तृतीययामे वृषध्वज: पातु दिनांत्ययामे ॥ २१ ॥

पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे ।
गौरी पति: पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम् ॥ २२ ॥

अन्त:स्थितं रक्षतु शंकरो मां स्थाणु: सदापातु बहि: स्थित माम् ।
तदंतरे पातु पति: पशूनां सदाशिवोरक्षतु मां समंतात् ॥ २३ ॥

तिष्ठतमव्याद्‍भुवनैकनाथ: पायाद्‍व्रजंतं प्रथमाधिनाथ: ।
वेदांतवेद्योऽवतु मां निषण्णं मामव्यय: पातु शिव: शयानम् ॥ २४ ॥

मार्गेषु मां रक्षतु नीलकंठ: शैलादिदुर्गेषु पुरत्रयारि: ।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्ति: ॥ २५ ॥

कल्पांतकोटोपपटुप्रकोप-स्फुटाट्टहासोच्चलितांडकोश: ।
घोरारिसेनर्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्र: ॥ २६ ॥

पत्त्यश्‍वमातंगघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिंद्यान्मृडोघोर कुठार धारया २७ ॥

निहंतु दस्यून्प्रलयानलार्चिर्ज्वलत्रिशूलं त्रिपुरांतकस्य ।
शार्दूल सिंहर्क्षवृकादिहिंस्रान्संत्रासयत्वीशधनु: पिनाक: ॥ २८ ॥

दु:स्वप्नदु:शकुनदुर्गतिदौर्मनस्यर्दुर्भिक्षदुर्व्यसनदु:सहदुर्यशांसि ।
उत्पाततापविषभीतिमसद्‍ग्रहार्ति व्याधींश्‍च नाशयतु मे जगतामधीश: ॥ २९ ॥

ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सर्वमंत्रस्वरूपाय सर्वयंत्राधिष्ठिताय सर्वतंत्रस्वरूपाय सर्वत्त्वविदूराय ब्रह्मरुद्रावतारिणे नीलकंठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्‍धूलितविग्रहाय महामणिमुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकालरौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलाधारैकनिलयाय तत्त्वातीताय गंगाधराय सर्वदेवाधिदेवाय षडाश्रयाय वेदांतसाराय त्रिवर्गसाधनायानंतकोटिब्रह्माण्डनायकायानंतवासुकितक्षककर्कोटकङ्‍खकुलिक पद्ममहापद्मेत्यष्टमहानागकुलभूषणायप्रणवस्वरूपाय चिदाकाशाय आकाशदिक्स्वरूपायग्रहनक्षत्रमालिने सकलाय कलंकरहिताय सकललोकैकर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकल वेदान्तपारगाय सकललोकैकवरप्रदाय सकलकोलोकैकशंकराय शशांकशेखराय शाश्‍वतनिजावासाय निराभासाय निरामयाय निर्मलाय निर्लोभाय निर्मदाय निश्‍चिंताय निरहंकाराय निरंकुशाय निष्कलंकाय निर्गुणाय निष्कामाय निरुपप्लवाय निरवद्याय निरंतराय निष्कारणाय निरंतकाय निष्प्रपंचाय नि:संगाय निर्द्वंद्वाय निराधाराय नीरागाय निष्क्रोधाय निर्मलाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियय निस्तुलाय नि:संशयाय निरंजनाय निरुपमविभवायनित्यशुद्धबुद्ध परिपूर्णसच्चिदानंदाद्वयाय परमशांतस्वरूपाय तेजोरूपाय तेजोमयाय जय जय रुद्रमहारौद्रभद्रावतार महाभैरव कालभैरव कल्पांतभैरव कपालमालाधर खट्‍वांगखड्गचर्मपाशांकुशडमरुशूलचापबाणगदाशक्‍तिभिंदिपालतोमरमुसलमुद्‌गरपाशपरिघ भुशुण्डीशतघ्नीचक्राद्यायुधभीषणकरसहस्रमुखदंष्ट्राकरालवदनविकटाट्टहासविस्फारितब्रह्मांडमंडल नागेंद्रकुंडल नागेंद्रहार नागेन्द्रवलय नागेंद्रचर्मधरमृयुंजय त्र्यंबकपुरांतक विश्‍वरूप विरूपाक्ष विश्‍वेश्वर वृषभवाहन विषविभूषण विश्‍वतोमुख सर्वतो रक्ष रक्ष मां ज्वल ज्वल महामृत्युमपमृत्युभयं नाशयनाशयचोरभयमुत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान्मारय मारय ममशमनुच्चाट्योच्चाटयत्रिशूलेनविदारय कुठारेणभिंधिभिंभधि खड्‌गेन छिंधि छिंधि खट्‍वांगेन विपोथय विपोथय मुसलेन निष्पेषय निष्पेषय वाणै: संताडय संताडय रक्षांसि भीषय भीषयशेषभूतानि निद्रावय कूष्मांडवेतालमारीच ब्रह्मराक्षसगणान्‌संत्रासय संत्रासय ममाभय कुरु कुरु वित्रस्तं मामाश्‍वासयाश्‍वासय नरकमहाभयान्मामुद्धरसंजीवय संजीवयक्षुत्तृड्‌भ्यां मामाप्याय-आप्याय दु:खातुरं मामानन्दयानन्दयशिवकवचेन मामाच्छादयाच्छादयमृत्युंजय त्र्यंबक सदाशिव नमस्ते नमस्ते नमस्ते।

।। ऋषभ उवाच ।।

इत्येतत्कवचं शैवं वरदं व्याह्रतं मया ॥
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥ ३० ॥

य: सदा धारयेन्मर्त्य: शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शंभोरनुग्रहात् ॥ ३१ ॥

क्षीणायुअ:प्राप्तमृत्युर्वा महारोगहतोऽपि वा ॥
सद्य: सुखमवाप्नोति दीर्घमायुश्‍चविंदति ॥ ३२ ॥

सर्वदारिद्र्य शमनं सौमंगल्यविवर्धनम् ।
यो धत्ते कवचं शैवं सदेवैरपि पूज्यते ॥ ३३ ॥

महापातकसंघातैर्मुच्यते चोपपातकै: ।
देहांते मुक्‍तिमाप्नोति शिववर्मानुभावत: ॥ ३४ ॥

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम्
धारयस्व मया दत्तं सद्य: श्रेयो ह्यवाप्स्यसि ॥ ३५ ॥

॥ सूत उवाच ॥

इत्युक्त्वाऋषभो योगी तस्मै पार्थिवसूनवे ।
ददौ शंखं महारावं खड्गं चारिनिषूदनम् ॥ ३६ ॥

पुनश्‍च भस्म संमत्र्य तदंगं परितोऽस्पृशत् ।
गजानां षट्‍सहस्रस्य द्विगुणस्य बलं ददौ । ३७ ॥

Friday, March 2, 2018

श्रीसद्गुरुजयेन्द्रसरस्वतीस्तोत्रम्

---------- Forwarded message ----------
From: Jayaraman M <jramanm>
Date: 2018-03-02 5:08 GMT+05:30
Subject: {भारतीयविद्वत्परिषत्} Versified Homage to Pujya Shri Jayendra Sarasvati Svaminah
To: भारतीयविद्वत्परिषत् <bvparishat>

Namaste

॥श्रीसद्गुरुजयेन्द्रसरस्वतीस्तोत्रम् ॥

पूर्वापूर्वबलाद् येन चन्द्रशेखरसद्गुरोः।
जिता पूर्णा कृपा तस्मै जयेन्द्रगुरवे नमः॥१॥

प्रत्याहारदिभिर्येन मनइन्द्रियसंहतिः।
निर्जिता निखिला तस्मै जयेन्द्रगुरवे नमः॥२॥

येनानुग्रहवर्षाभिः भक्तजातं कृपालुना।
निर्जितं निखिलं तस्मै  जयेन्द्रगुरवे नमः॥३॥

सत्यनिष्ठतया येन दुष्टशासकदुर्मतिः।
पराजिता भृशं तस्मै  जयेन्द्रगुरवे नमः॥४॥

इहलोको जितो येन सद्यो मोक्षपुरी शुभा।
विजिता शाश्वती तस्मै  जयेन्द्रगुरवे नमः॥५॥

जयेन्द्रसद्गुरोः स्तोत्रं जयरामेण यत्कृतम्।
इहामुत्रजयाकाङ्क्षी पठन्नित्यं जयी भवेत्॥

॥इति हेमलम्बनामसंवत्सरे उत्तरायणे शिशिरर्तौ कुम्भमासे शुक्लपक्षे पूर्णिमायां श्रीमद्वसन्तामहादेवसूनुना रचितं श्रीसद्गुरुजयेन्द्रसरस्वतीस्तोत्रं सम्पूर्णम्॥

Tamil and English Translations of these verses can be read here - http://alarka-bhasitam.blogspot.in/2018/03/hymn-on-his-holiness-sri-jayendra.html

regards
Jayaraman
http://alarka-bhasitam.blogspot.in/
https://independent.academia.edu/jayaramanMahadevan
http://yoga-literary-research.blogspot.in/2015/10/the-books.html

ಶಿವಕೇಶಾದಿಪಾದಾನ್ತವರ್ಣನಸ್ತೋತ್ರಮ್

ಶಿವಕೇಶಾದಿ ಪಾದಾನ್ತ ವರ್ಣನ ಸ್ತೋತ್ರಮ್

ದೇಯಾಸುರ್ಮೂರ್ಧ್ನಿ ರಾಜತ್ಸರಸಸುರಸರಿತ್ಪಾರಪರ್ಯನ್ತನಿರ್ಯತ್-
ಪ್ರಾಂಶುಸ್ತಮ್ಬಾಃ ಪಿಶಙ್ಗಾಸ್ತುಲಿತಪರಿಣತಾರಕ್ತಶಾಲೀಲತಾ ವಃ | 
ದುರ್ವಾರಾಪತ್ತಿಗರ್ತಶ್ರಿತನಿಖಿಲಜನೋತ್ತಾರಣೇ ರಜ್ಜುಭೂತಾ 
ಘೋರಾಘೋರ್ವೀರುಹಾಲೀದಹನಶಿಖಿಶಿಖಾಃ ಶರ್ಮ ಶಾರ್ವಾಃ ಕಪರ್ದಾಃ ||೧|| 

ಕುರ್ವನ್ನಿರ್ವಾಣಮಾರ್ಗಪ್ರಗಮಪರಿಲಸದ್ರೂಪ್ಯಸೋಪಾನಶಙ್ಕಾಂ  
ಶಕ್ರಾರೀಣಾಂ ಪುರಾಣಾಂ ತ್ರಯವಿಜಯಕೃತಸ್ಪಷ್ಟರೇಖಾಯಮಾಣಮ್ | 
ಅವ್ಯಾದವ್ಯಾಜಮುಚ್ಚೈರಲಿಕಹಿಮಧರಾಧಿತ್ಯಕಾನ್ತಸ್ತ್ರಿಧೋದ್ಯ-
ಜ್ಜಾಹ್ನವ್ಯಾಭಂ ಮೃಡಾನೀಕಮಿತರುಡುಪರುಕ್ಪಾಣ್ಡರಂ ವಸ್ತ್ರಿಪುಣ್ಡ್ರಮ್ ||೨|| 

ಕ್ರುಧ್ಯದ್ಗೌರೀಪ್ರಸಾದಾನತಿಸಮಯಪದಾಙ್ಗುಷ್ಠಸಙ್ಕ್ರಾನ್ತಲಾಕ್ಷಾ-
ಬಿನ್ದುಸ್ಪರ್ಧಿ ಸ್ಮರಾರೇಃ ಸ್ಫಟಿಕಮಣಿದೃಷನ್ಮಗ್ನಮಾಣಿಕ್ಯಶೋಭಮ್ | 
ಮೂರ್ಧ್ನ್ಯುದ್ಯದ್ದಿವ್ಯಸಿನ್ಧೋಃ ಪತಿತಶಫರಿಕಾಕಾರಿ ವೋ ಮಸ್ತಕಂ 
ಸ್ತಾದಸ್ತೋಕಾಪತ್ತಿಕ್ರ‍ೃತ್ತ್ಯೈ ಹುತವಹಕಣಿಕಾಮೋಕ್ಷರೂಕ್ಷಂ ಸದಾಕ್ಷಿ ||೩|| 

ಭೂತ್ಯೈ ದೃಗ್ಭೂತಯೋಃ ಸ್ಯಾದ್ಯದಹಿಮಹಿಮರುಗ್ಬಿಮ್ಬಯೋಃ ಸ್ನಿಗ್ಧವರ್ಣೋ
ದೈತ್ಯೌಘಧ್ವಂಸಶಂಸೀ ಸ್ಫುಟ ಇವ ಪರಿವೇಷಾವಶೇಷೋ ವಿಭಾತಿ | 
ಸರ್ಗಸ್ಥಿತ್ಯನ್ತವೃತ್ತಿರ್ಮಯಿ ಸಮುಪಗತೇಽತೀವ ನಿರ್ವೄತ್ತಗರ್ವಂ 
ಶರ್ವಾಣೀಭರ್ತುರುಚ್ಚೈರ್ಯುಗಳಮಥ ದಧದ್ವಿಭ್ರಮಂ ತದ್ಭ್ರುವೋರ್ವಃ ||೪|| 

ಯುಗ್ಮೇ ರುಕ್ಮಾಞ್ಜಪಿಙ್ಗೇ ಗ್ರಹ ಇವ ಪಿಹಿತೇ ದ್ರಾಗ್ಯಯೋಃ ಪ್ರಾಗ್ದುಹಿತ್ರಾ 
ಶೈಲಸ್ಯ ಧ್ವಾನ್ತನೀಲಾಮ್ಬರರಚಿತಬೃಹತ್ಕಞ್ಚುಕೋಽಭೂತ್ಪ್ರಪಞ್ಚಃ  | 
ತೇ ತ್ರೈನೇತ್ರೇ ಪವಿತ್ರೇ ತ್ರಿದಶವರಘಟಾಮಿತ್ರಜೈತ್ರೋಗ್ರಶಸ್ತ್ರೇ 
ನೇತ್ರೇ ನೇತ್ರೇ ಭವೇತಾಂ ದ್ರುತಮಿಹ ಭವತಾಮಿನ್ದ್ರಿಯಾಶ್ವಾನ್ನಿಯನ್ತುಮ್ ||೫|| 

ಚಣ್ಡೀವಕ್ತ್ರಾರ್ಪಣೇಚ್ಛೋಸ್ತದನು ಭಗವತಃ ಪಾಣ್ಡುರುಕ್ಪಾಣ್ಡುಗಣ್ಡ-
ಪ್ರೋದ್ಯತ್ಕಣ್ಡೂಂ ವಿನೇತುಂ ವಿತನುತ ಇವ ಯೇ ರತ್ನಕೋಣೈರ್ವಿಘೃಷ್ಟಿಮ್ |
ಚಣ್ಡಾರ್ಚಿರ್ಮಣ್ಡಲಾಭೇ ಸತತನತಜನಧ್ವಾನ್ತಖಣ್ಡಾತಿಶೌಣ್ಡೇ 
ಚಾಣ್ಡೀಶೇ ತೇ ಶ್ರಿಯೇ ಸ್ತಾಮಧಿಕಮವನತಾಖಣ್ಡಲೇ ಕುಣ್ಡಲೇ ವಃ ||೬|| 

ಖಟ್ವಾಙ್ಗೋದಗ್ರಪಾಣೇಃ ಸ್ಫುಟವಿಕಟಪುಟೋ ವಕ್ತ್ರರನ್ಧ್ರಪ್ರವೇಶ 
ಪ್ರೇಪ್ಸೂದಞ್ಚತ್ಫಣೋರುಷ್ವಸದತಿಧವಳಾಹೀನ್ದ್ರಶಙ್ಕಾಂ ದಧಾನಃ |
ಯುಷ್ಮಾಕಂ ಕಮ್ರವಕ್ತ್ರಾಮ್ಬುರುಹಪರಿಲಸತ್ಕರ್ಣಿಕಾಕಾರಶೋಭಃ 
ಶಶ್ವತ್ತ್ರಾಣಾಯ ಭೂಯಾದಲಮತಿವಿಮಲೋತ್ತುಙ್ಗಕೋಣಃ ಸ ಘೋಣಃ ||೭|| 

ಕುಧ್ಯತ್ಯದ್ಧಾ ಯಯೋಃ ಸ್ವಾಂ ತನುಮತಿಲಸತೋರ್ಬಿಮ್ಬಿತಾಂ ಲಕ್ಷಯನ್ತೀ 
ಭರ್ತ್ರೇ ಸ್ಪರ್ಧಾತಿವಿಘ್ನಾ ಮುಹುರಿತರವಧೂಶಙ್ಕಯಾ ಶೈಲಕನ್ಯಾ | 
ಯುಷ್ಮಾಂಸ್ತೌ ಶಶ್ವದುಚ್ಚೈರಬಹುಲದಶಮೀಶರ್ವರೀಶಾತಿಶುಭ್ರಾ-
ವವ್ಯಾಸ್ತಾಂ ದಿವ್ಯಸಿನ್ಧೋಃ ಕಮಿತುರವನಮಲ್ಲೋಕಪಾಲೌ ಕಪೋಲೌ ||೮|| 

ಯೋ ಭಾಸಾ ಭಾತ್ಯುಪಾನ್ತಸ್ಥಿತ ಇವ ನಿಭೃತಂ ಕೌಸ್ತುಭೋ ದ್ರಷ್ಟುಮಿಚ್ಛನ್
ಸೋತ್ಥಸ್ನೇಹಾನ್ನಿತಾನ್ತಂ ಗಲಗತಗರಳಂ ಪತ್ಯುರುಚ್ಚೈಃ ಪಶೂನಾಮ್ | 
ಪ್ರೋದ್ಯತ್ಪ್ರೇಮ್ಣಾ ಯಮಾರ್ದ್ರಾ ಪಿಬತಿ ಗಿರಿಸುತಾ ಸಂಪದಃ ಸಾತಿರೇಕಾ 
ಲೋಕಾಃ ಶೋಣೀಕೃತಾನ್ತಾ ಯದಧರಮಹಸಾ ಸೋಽಧರೋ ವೋ ವಿಧತ್ತಾಮ್ ||೯|| 

ಅತ್ಯರ್ಥಂ ರಾಜತೇ ಯಾ ವದನಶಶಧರಾದುದ್ಗಲಚ್ಚಾರುವಾಣೀ-
ಪೀಯೂಷಾಮ್ಭಃಪ್ರವಾಹಪ್ರಸರಪರಿಲಸತ್ಫೇನಬಿನ್ದ್ವಾವಲೀವ | 
ದೇಯಾತ್ಸಾ ದನ್ತಪಙ್ಕ್ತಿಶ್ಚಿರಮಿಹ ದನುದಾಯಾದದೌವಾರಿಕಸ್ಯ 
ದ್ಯುತ್ಯಾ ದೀಪ್ತೇನ್ದುಕುನ್ದಚ್ಛವಿರಮಲತರಪ್ರೋನ್ನತಾಗ್ರಾ ಮುದಂ ವಃ ||೧೦|| 

ನ್ಯಕ್ಕುರ್ವನ್ನುರ್ವರಾಭೃನ್ನಿಭಘನಸಮಯೋದ್ಧುಷ್ಟಮೇಘೌಘಘೋಷಂ 
ಸ್ಫೂರ್ಜದ್ವಾರ್ಧ್ಯುತ್ಥಿತೋರುಧ್ವನಿತಮಪಿ ಪರಬ್ರಹ್ಮಭೂತೋ ಗಭೀರಃ | 
ಸುವ್ಯಕ್ತೋ ವ್ಯಕ್ತಮೂರ್ತೇಃ ಪ್ರಕಟಿತಕರಣಃ ಪ್ರಾಣನಾಥಸ್ಯ ಸತ್ಯಾಃ 
ಪ್ರೀತ್ಯಾ ವಃ ಸಂವಿದಧ್ಯಾತ್ಫಲವಿಕಲಮಲಂ ಜನ್ಮ ನಾದಃ ಸ ನಾದಃ ||೧೧||

ಭಾಸಾ ಯಸ್ಯ ತ್ರಿಲೋಕೀ ಲಸತಿ ಪರಿಲಸತ್ಫೇನಬಿನ್ದ್ವರ್ಣವಾನ್ತರ್-
ವ್ಯಾಮಗ್ರೇವಾತಿಗೌರಸ್ತುಲಿತಸುರಸರಿದ್ವಾರಿಪೂರಪ್ರಸಾರಃ | 
ಪೀನಾತ್ಮಾ ದನ್ತಭಾಭಿರ್ಭೃಶಮಹಹಹಕಾರಾತಿಭೀಮಃ ಸದೇಷ್ಟಾಂ 
ಪುಷ್ಟಾಂ ತುಷ್ಟಿಂ ಕೃಷೀಷ್ರ‍್ಟ ಸ್ಫುಟಮಿಹ ಭವತಾಮಟ್ಟಹಾಸೋಽಷ್ಟಮೂರ್ತೇಃ ||೧೨|| 

ಸದ್ಯೋಜಾತಾಖ್ಯಮಾಪ್ಯಂ ಯದುವಿಮಲಮುದಗ್ವರ್ತಿ ಯದ್ವಾಮದೇವಂ 
ನಾಮ್ನಾ ಹೇಮ್ನಾ ಸದೃಕ್ಷಂ ಜಲದನಿಭಮಘೋರಾಹ್ವಯಂ ದಕ್ಷಿಣಂ ಯತ್ |  
ಯದ್ಬಾಲಾರ್ಕಪ್ರಭಂ ತತ್ಪುರುಷನಿಗದಿತಂ ಪೂರ್ವಮೀಶಾನಸಂಜ್ಞಂ 
ಯದ್ದಿವ್ಯಂ ತಾನಿ ಶಮ್ಭೋರ್ಭವದಭಿಲಷಿತಂ ಪಞ್ಚ ದದ್ಯುರ್ಮುಖಾನಿ ||೧೩|| 

ಆತ್ಮಪ್ರೇಮ್ಣೋ ಭವಾನ್ಯಾ ಸ್ವಯಮಿವ ರಚಿತಾಃ ಸಾದರಂ ಸಾಂವನನ್ಯಾ 
ಮಷ್ಯಾ ತಿಸ್ರಃ ಸುನೀಲಾಞ್ಜನನಿಭಗರರೇಖಾಃ ಸಮಾಭಾನ್ತಿ ಯಸ್ಯಾಮ್ | 
ಆಕಲ್ಪಾನಲ್ಪಭಾಸಾ ಭೃಶರುಚಿರತರಾ ಕಮ್ಬುಕಲ್ಪಾಽಮ್ಬಿಕಾಯಾಃ 
ಪತ್ಯುಃ ಸಾತ್ಯನ್ತಮನ್ತರ್ವಿಲಸತು ಸತತಂ ಮನ್ಥರಾ ಕನ್ಧರಾ ವಃ ||೧೪|| 

ವಕ್ತ್ರೇನ್ದೋರ್ದನ್ತ ಲಕ್ಷ್ಮ್ಯಾಶ್ಚಿರಮಧರಮಹಾಕೌಸ್ತುಭಸ್ಯಾಪ್ಯುಪಾನ್ತೇ 
ಸೋತ್ಥಾನಾಂ ಪ್ರಾರ್ಥಯನ್ ಯ ಸ್ಥಿತಿಮಚಲಭುವೇ ವಾರಯನ್ತ್ಯೈ ನಿವೇಶಮ್ | 
ಪ್ರಾಯುಙ್ಕ್ತೇವಾಶಿಷೋ ಯಃ ಪ್ರತಿಪದಮಮೃತತ್ವೇ ಸ್ಥಿತಃ ಕಾಲಶತ್ರೋಃ  
ಕಾಲಂ ಕುರ್ವನ್ ಗಲಂ ವೋ ಹೃದಯಮಯಮಲಂ ಕ್ಷಾಲಯೇತ್ಕಾಲಕೂಟಃ ||೧೫|| 

ಪ್ರೌಢಪ್ರೇಮಾಕುಲಾಯಾ ದ್ದಢತರಪರಿರಮ್ಭೇಷು ಪರ್ವೇನ್ದುಮುಖ್ಯಾಃ 
ಪಾರ್ವತ್ಯಾಶ್ಚಾರುಚಾಮೀಕರವಲಯಪದೈರಙ್ಕಿತಂ ಕಾನ್ತಿಶಾಲಿ | 
ರಙ್ಗನ್ನಾಗಾಙ್ಗದಾಢ್ಯಂ ಸತತಮವಿಹಿತಂ ಕರ್ಮ ನಿರ್ಮೂಲಯೇತ್ತ-
ದೋರ್ಮೂಲಂ ನಿರ್ಮಲಂ ಯದ್ಧೃದಿ ದುರಿತಮಪಾಸ್ಯಾರ್ಜಿತಂ ಧೂರ್ಜಟೇರ್ವಃ ||೧೬|| 

ಕಣ್ಠಾಶ್ಲೇಷಾರ್ಥಮಾಪ್ತಾ ದಿವ ಇವ ಕಮಿತುಃ ಸ್ವರ್ಗಸಿನ್ಧೋಃ ಪ್ರವಾಹಾಃ 
ಕ್ರಾನ್ತ್ಯೈ ಸಂಸಾರಸಿನ್ಧೋಃ ಸ್ಫಟಿಕಮಣಿಮಹಾಸಙ್ಕ್ರಮಾಕಾರದೀರ್ಘಾಃ | 
ತಿರ್ಯಗ್ವಿಷ್ಕಮ್ಭಭೂತಾಸ್ತ್ರಿಭುವನವಸತೇರ್ಭಿನ್ನದೈತ್ಯೇಭದೇಹಾ 
ಬಾಹಾವಸ್ತಾ ಹರಸ್ಯ ದ್ರುತಮಿಹ ನಿವಹಾನಂಹಸಾಂ ಸಂಹರನ್ತು||೧೭|| 

ವಕ್ಷೋ ದಕ್ಷದ್ವಿಷೋಽಲಂ ಸ್ಮರಭರವಿನಮದ್ದಕ್ಷಜಾಕ್ಷೀಣವಕ್ಷೋಜಾನ್ತರ್-
ನಿಕ್ಷಿಪ್ತಶುಮ್ಭನ್ಮಲಯಜಮಿಲಿತೋದ್ಭಾಸಿ ಭಸ್ಮೋಕ್ಷಿತಂ ಯತ್ | 
ಕ್ಷಿಪ್ರಂ ತದ್ರೂಕ್ಷಚಕ್ಷುಃ ಶ್ರುತಿ ಗಣಫಣರತ್ನೌಘಭಾಭೀಕ್ಷ್ಣಶೋಭಂ 
ಯುಷ್ಮಾಕಂ ಶಶ್ವದೇನಃ ಸ್ಫಟಿಕಮಣಿಶಿಲಾಮಣ್ಡಲಾಭಂ ಕ್ಷಿಣೋತು ||೧೮|| 

ಮುಕ್ತಾಮುಕ್ತೇ ವಿಚಿತ್ರಾಕುಲವಲಿಲಹರೀಜಾಲಶಾಲಿನ್ಯವಾಞ್ಚನ್-
ನಾಭ್ಯಾವರ್ತೇ ವಿಲೋಲದ್ಭುಜಗವರಯುತೇ ಕಾಲಶತ್ರೋರ್ವಿಶಾಲೇ | 
ಯುಷ್ಮಚ್ಚಿತ್ತತ್ರಿಧಾಮಾ ಪ್ರತಿನವರುಚಿರೇ ಮನ್ದಿರೇ ಕಾನ್ತಿಲಕ್ಷ್ಮ್ಯಾಃ 
ಶೇತಾಂ ಶೀತಾಂಶುಗೌರೇ ಚಿರತರಮುದರಕ್ಷೀರಸಿನ್ಧೌ ಸಲೀಲಮ್ ||೧೯|| 

ವೈಯಾಘ್ರೀ ಯತ್ರ ಕೃತ್ತಿಃ ಸ್ಫುರತಿ ಹಿಮಗಿರೇರ್ವಿಸ್ತೃತೋಪತ್ಯಕಾನ್ತಃ 
ಸಾನ್ದ್ರಾವಶ್ಯಾಯಮಿಶ್ರಾ ಪರಿತ ಇವ ವೃತಾ ನೀಲಜೀಮೂತಮಾಲಾ | 
ಆಬದ್ಧಾಹೀನ್ದ್ರಕಾಞ್ಚೀಗುಣಮತಿಪೃಥುಲಂ ಶೈಲಜಾಕೀಡಭೂಮಿಸ್ತದ್ವೋ 
ನಿಃಶ್ರೇಯಸೇ ಸ್ಯಾಜ್ಜಘನಮತಿಘನಂ ಬಾಲಶೀತಾಂಶುಮೌಲೇಃ ||೨೦|| 

ಪುಷ್ಟಾವಷ್ಟಮ್ಭಭೂತೌ ಪೃಥುತರಜಘನಸ್ಯಾಪಿ ನಿತ್ಯಂ ತ್ರಿಲೋಕ್ಯಾಃ 
ಸಮ್ಯಗ್ವೃತ್ತೌ ಸುರೇನ್ದ್ರದ್ವಿರದವರಕರೋದಾರಕಾನ್ತಿಂ ದಧಾನೌ | 
ಸಾರಾವೂರೂ ಪುರಾರೇಃ ಪ್ರಸಭಮರಿಘರ‍್ಟಾಘಸ್ಮರೌ ಭಸ್ಮಶುಭ್ರೌ
ಭಕ್ತೈರತ್ಯಾರ್ದ್ರಚಿತ್ತೈರಧಿಕಮವನತೌ ವಾಞ್ಛಿತಂ ವೋ ವಿಧತ್ತಾಮ್ ||೨೧|| 

ಆನನ್ದಾಯೇನ್ದುಕಾನ್ತೋಪಲರಚಿತಸಮುದ್ಗಾಯಿತೇ ಯೇ ಮುನೀನಾಂ 
ಚಿತ್ತಾದರ್ಶಂ ನಿಧಾತುಂ ವಿದಧತಿ ಚರಣೇ ತಾಣ್ಡವಾಕುಞ್ಚನಾನಿ | 
ಕಾಞ್ಚೀಭೋಗೀನ್ದ್ರಮೂರ್ಧ್ನಾ ಪ್ರತಿಮುಹುರುಪಧಾನಾಯಮಾನೇ ಕ್ಷಣಂ ತೇ
ಕಾನ್ತೇ ಸ್ತಾಮನ್ತಕಾರೇರ್ದ್ಯುತಿವಿಜಿತಸುಧಾಭಾನುನೀ ಜಾನುನೀ ವಃ ||೨೨|| 

ಮಞ್ಜೀರೀಭೂತಭೋಗಿಪ್ರವರಗಣಫಣಾಮಣ್ಡಲಾನ್ತರ್ನಿತಾನ್ತ-
ವ್ಯಾದೀರ್ಘಾನರ್ಘರತ್ನದ್ಯುತಿಕಿಸಲಯಿತೇ ಸ್ತೂಯಮಾನೇ ದ್ಯುಸದ್ಭಿಃ | 
ಬಿಭ್ರತ್ಯೌ ವಿಮ್ರಮಂ ವಃ ಸ್ಫಟಿಕಮಣಿಬೃಹದ್ದಣ್ಡವದ್ಭಾಸಿತೇ ಯೇ 
ಜಙ್ಘೇ ಶಙ್ಖೇನ್ದುಶುಭ್ರೇ ಭೃಶಮಿಹ ಭವತಾಂ ಮಾನಸೇ ಶೂಲಪಾಣೇಃ ||೨೩|| 

ಅಸ್ತೋಕಸ್ತೋಮಶಸ್ತ್ರೈರಪಚಿತಿಮಮಲಾಂ ಭೂರಿಭಾವೋಪಹಾರೈಃ 
ಕುರ್ವದ್ಭಿಃ ಸರ್ವದೋಚ್ಚೈಃ ಸತತಮಭಿವೃತೌ ಬ್ರಹ್ಮವಿದ್ದೇವಲಾದ್ಯೈಃ | 
ಸಮ್ಯಕ್ಸಮ್ಪೂಜ್ಯಮಾನಾವಿಹ ಹೃದಿ ಸರಸೀವಾನಿಶಂ ಯುಷ್ಮದೀಯೇ 
ಶರ್ವಸ್ಯ ಕ್ರೀಡತಾಂ  ತೌ ಪ್ರಪದವರಬೃಹತ್ಕಚ್ಛಪಾವಚ್ಛಭಾಸೌ ||೨೪||

ಯಾಃ ಸ್ವಸ್ಯೈಕಾಂಶಪಾತಾದಿತಿಬಹಲಗಲದ್ರಕ್ತವಕ್ತ್ರಂ ಪ್ರಣುನ್ನ-
ಪ್ರಾಣಂ ಪ್ರಾಕ್ರೋಶಯನ್ಪ್ರಾಙ್ ನಿಜಮಚಲವರಂ ಚಾಲಯನ್ತಂ ದಶಾಸ್ಯಮ್ | 
ಪಾದಾಙ್ಗುಲ್ಯೋ ದಿಶನ್ತು ದ್ರುತಮಯುಗದಶಃ ಕಲ್ಮಷಪ್ಲೋಷಕಲ್ಯಾಃ 
ಕಲ್ಯಾಣಂ ಫುಲ್ಲಮಾಲ್ಯಪ್ರಕರವಿಲಸಿತಾ ವಃ ಪ್ರಣದ್ಧಾಹಿವಲ್ಲ್ಯಃ ||೨೫|| 

ಪ್ರಹ್ವಪ್ರಾಚೀನಬರ್ಹಿಃಪ್ರಮುಖಸುರವರಪ್ರಸ್ಫುರನ್ಮೌಲಿಸಕ್ತ-
ಜ್ಯಾಯೋರತ್ನೋತ್ಕರೋಸ್ತ್ರೈರವಿರತಮಮಲಾ ಭೂರಿನೀರಾಜಿತಾ ಯಾ | 
ಪ್ರೋದಗ್ರಾಗ್ರಾ ಪ್ರದೇಯಾತ್ತತಿರಿವ ರುಚಿರಾ ತಾರಕಾಣಾಂ ನಿತಾನ್ತಂ 
ನೀಲಗ್ರೀವಸ್ಯ ಪಾದಾಮ್ಬುರುಹವಿಲಸಿತಾ ಸಾ ನಖಾಲೀಃ ಸುಖಂ ವಃ ||೨೬||  

ಸತ್ಯಾಃ ಸತ್ಯಾನನೇನ್ದಾವಪಿ ಸವಿಧಗತೇ ಯೇ ವಿಕಾಸಂ ದಧಾತೇ 
ಸ್ವಾನ್ತೇ ಸ್ವಾಂ ತೇ ಲಭನ್ತೇ ಶ್ರಿಯಮಿಹ ಸರಸೀವಾಮರಾ ಯೇ ದಧಾನಾಃ| 
ಲೋಲಂ ಲೋಲಮ್ಬಕಾನಾಂ ಕುಲಮಿವ ಸುಧಿಯಾಂ ಸೇವತೇ ಯೇ ಸದಾ ಸ್ತಾಂ 
ಭೂತ್ಯೈ ಭೂತ್ಯೈಣಪಾಣೇರ್ವಿಮಲತರರುಚಸ್ತೇ ಪದಾಮ್ಭೋರುಹೇ ವಃ ||೨೭|| 

ಯೇಷಾಂ ರಾಗಾದಿದೋಷಾಕ್ಷತಮತಿ ಯತಯೋ ಯಾನ್ತಿ ಮುಕ್ತಿಪ್ರಸಾದಾ-
ದ್ಯೇ ವಾ ನಮ್ರಾತ್ಮಮೂರ್ತಿದ್ಯುಸದೃಶಿಪರಿಷನ್ಮೂರ್ಧ್ನಿ ಶೇಷಾಯಮಾಣಾಃ | 
ಶ್ರೀಕಣ್ಠಸ್ಯಾರುಣೋದ್ಯಚ್ಚರಣಸರಸಿಜಪ್ರೋತ್ಥಿತಾಸ್ತೇ ಭವಾಖ್ಯಾತ್-
ಪಾರಾವಾರಾಚ್ಚಿರಂ ವೋ ದುರಿತಹತಿಕೃತಸ್ತಾರಯೇಯುಃ ಪರಾಗಾಃ ||೨೮|| 

ಭೂಮ್ನಾ ಯಸ್ಯಾಸ್ತಸೀಮ್ನಾ ಭುವನಮನುಸೃತಂ ಯತ್ಪರಂ ಧಾಮ ಧಾಮ್ನಾಂ 
ಸಾಮ್ನಾಮಾಮ್ನಾಯತತ್ತ್ವಂ ಯದಪಿ ಚ ಪರಮಂ ಯದ್ಗುಣಾತೀತಮಾದ್ಯಮ್ | 
ಯಚ್ಚಾಂಹೋಹನ್ನಿರೀಹಂ ಗಗನಮಿತಿ ಮುಹುಃ ಪ್ರಾಹುರುಚ್ಚೈರ್ಮಹಾನ್ತೋ 
ಮಾಹೇಶಂ ತನ್ಮಹೋ ಮೇ ಮಹಿತಮಹರಹರ್ಮೋಹರೋಹಂ ನಿಹನ್ತು ||೨೯|| 

ಇತಿ ಶ್ರೀಮತ್ಪರಮಹಂಸಪರಿವ್ರಾಜಕಾಚಾರ್ಯಸ್ಯ ಶ್ರೀಗೋವಿನ್ದಭಗವತ್ಪಾದಶಿಷ್ಯಸ್ಯ 
ಶ್ರೀಮಚ್ಛಙ್ಕರಾಚಾರ್ಯಸ್ಯ ಕೃತಮ್ ಶಿವಕೇಶಾದಿಪಾದಾನ್ತವರ್ಣನಸ್ತೋತ್ರಂ ಸಂಪೂರ್ಣಮ್ ||