Vidyasagar - in quest for knowledge
I would like to provide information against whatever Subject I have known. This blog is best viewed on Google Chrome.
Thursday, November 8, 2018
ಶ್ರೀ ವರಸಿದ್ಧಿವಿನಾಯಕ ಸ್ತೋತ್ರಂ
Sunday, May 13, 2018
मातृस्तोत्रम्
।।मातृस्तोत्रम्।।
पितुरप्यधिका माता गर्भधारणपोषणात्।
अतो हि त्रिषुलोकेषु नास्ति मातृसमो गुरुः।।
नास्ति गंगासमं तीर्थं नास्ति विष्णुसमः प्रभुः।।
नास्ति शम्भुसमःपूज्यो नास्ति मातृसमो गुरुः।।
नास्तिचैकादशीतुल्यं व्रतं त्रैलोक्यविश्रुतम्।
तपो नानशनात्तुलुयं नास्ति मातृसमो गुरुः।।
नास्ति भार्यासमं मित्रं नास्ति पुत्रसमः प्रियः।।
नास्ति भगिनीसमा मान्या नास्ति मातृसमो गुरुः।।
न जामातृसमं पात्रं न दानं कन्यया समम्।
न भ्रातृसदृशो बन्धुः न च मातृसमो गुरुः।।
देशो गङ्गान्तिकः श्रेष्ठो दलेषु तुलसीदलम्।
वर्णेषु ब्राह्मणः श्रेष्ठो गुरुर्माता गुरुषुवपि।।
पुरुषः पुत्ररूपेण भार्यामाश्रित्य जायते।
पूर्वभावाश्रया माता तेन सैव गुरुः परः।।
मातरं पितरं चेभौ दृष्ट्वा पुत्रस्तु धर्मवित्।
प्रणम्य मातरं पश्चात् प्रणमेत्पितरं गुरुम्।।
माता धरित्री जननी दयाऽर्द्रहृदया शिवा।
देवी त्रिभुवनश्रेष्ठा निर्दोषा सर्वदुःखहा।।
आराधनीया परमा दया शान्तिः क्षमा धृतिः।
स्वाहा स्वधा च गौरी च पद्मा च विजया जया।।
दुःखहन्त्रीति नामानि मातुरेवैकशिंशतिम्।
शृणुयाच्छ्रावयेन्मर्त्यः सर्वदुःखाद्विमुच्यते।।
दुःखैर्महद्भिर्नोऽपि दृष्ट्वा मातरमीश्वरम्।
यमानन्दं लभेन्मर्त्यः स किं वाचोपपद्यते।।
इति ते कथितं विप्र मातृस्तोत्रं महागुणम्।
पराशरमुखात्पूर्वमश्रौषं मातृसंस्तवम्।।
सेवित्वा पितरौ कश्चित् व्याधः परमधर्मवित्।
लेभे सर्वज्ञतां या तु साध्यते न तपस्विभिः।।
तस्मात्सर्वप्रयत्नेन भक्तिः कार्या तु मातरि।
पितरयपीति चोक्तं वै पित्रा शक्तिसुतेन मे।।
---इति व्यासप्रोक्तं मातृस्तोत्रं समाप्तम्।
Friday, May 11, 2018
निर्ऋति(/निरृति)स्तुतिः
निर्ऋति(/निरृति)स्तुतिः
निरृतिं नैरृताधीशं यमपश्चिममध्यगम् |
राक्षसाधिपतिं वन्दे देवमशन्निवृत्तये || १ ||
निर्गता ऋतिरस्मात्तु वाऽशुभं निर्ऋतिः स्मृतः |
ऋतिः शुभं च दद्यान्नो निरुपद्रवकारकः || २ ||
नैरृतो मारुतो वर्षं ददाति भारते यदा |
वर्षाकाले तु संप्राप्ते धान्यवृद्धिं करोति नः || ३ ||
पूर्वस्यां तु सुकान्तस्य रक्षकूटाह्वयो गिरिः |
यत्राऽऽस्ते सततं देवो निर्-ऋती राक्षसेश्वरः || ४ ||
खड्गहस्तो महाकायो वामे चर्मधरस्तथा |
जटाजूटसमायुक्तः प्रांशुकृष्णाचलोपमः || ५ ||
द्विभुजः कृष्णवस्त्रस्तु गर्दभोपरिसंस्थितः |
प्रान्तोपान्तौ बिन्दुसर्गसहितौ वादिरेव च || ६ ||
नैर्ऋत्यं कथितं बीजं तेन तं परिपूजयेत् |
रक्षकूटं समारुह्य निर्ऋतिं राक्षसेश्वरम् || ७ ||
यः पूजयेद्विधानेन चण्डिकां राक्षसेश्वरीम् |
न तस्य राक्षसेभ्योऽस्ति भयं वाऽपि कदाचन || ८ ||
राक्षसाश्च पिशाचाश्च वेताला गणनायकाः |
तं दृष्ट्वा पुरुषं ह्येते सर्वदैव प्रबिभ्यति || ९ ||
इत्युक्तं कालिकायां तु पुराणे निर्ऋतिप्रथाम् |
ऋग्वेदे कथितो पाप|देवतेति हि निर्ऋतिः || १० ||
सङ्घातः कालसूत्रं चे|त्याद्याः सत्त्वास्तु नारकाः |
प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः || ११ || (—अमरकोषे)
मृत्युदेवतया युक्ता भयमृत्योश्च मातृका |
महाभयस्य माता च ह्यधर्मस्य सती तथा || १२ ||
(—महाभारते)
अधर्महिंसयोः पुत्री भयनरकयोः प्रसूः | (—मार्कण्डेयपुराणे)
निर्ऋतिर्भूतलस्थानः प्रकोथस्य तथैव च || १३ ||
मरणं च तथा प्रोक्तस्तथैको रुद्र एव च |
वसूनामेकरूपश्च हरिवंशे प्रकीर्तितः || १४ ||
अधर्मयमलान् पुत्रान् आजग्राह ह्यपुत्रकः |
पारिजातप्रसङ्गे तु कृष्णाच्चैव पराङ्मुखः || १५ ||
अर्जुनेन पुरान्विष्टं तत्पुरं विप्रपुत्रये |
मृतस्सो वै तु संप्राप्तः दक्षिणारूपया गुरोः || १६ ||
पुरंजनपुरीद्वारे|ष्वेको पश्चिमभागतः |
तत्पुरी वैशसः प्रोक्तो गुदोऽपीति ह्युदीरितः || १७ ||
मुहूर्त इति चाप्युक्तो दिनस्य निर्ऋतिस्तथा |
ललितायाः परो भक्तो निर्ऋतिरिति कीर्तितः || १८ ||
सुदेवीधर्मपुत्रश्च वसूनामेक एव तु |
निर्ऋतिर्देवशैलश्च ब्रह्महत्यां व्यपोहति || १९ ||
ज्यौतिषे नैर्ऋतं प्राहू राहुनाम्ना दिशाधिपम् || २० ||
नैर्ऋतः कौणपः क्रव्याद् क्रव्यादोऽस्रप एव च |
रात्रिञ्चरोऽऽशरश्चैव रात्रिचरस्तु कर्बुरः |
यातुधानः पुण्यजनो यातुश्च निकषात्मजः || २१ || (—अमरकोषे)
निर्ऋतेरप्यपत्यं च नैर्ऋतेति हि कथ्यते |
कल्पभेदे मृत्युभार्या नैर्ऋतेति च कीर्तितः || २२ ||
मूलनक्षत्रदेवश्च चंद्रलोकसमाश्रितः |
राक्षसानां च संबंधी कुबेरानुग एव च || २३ ||
देवराक्षस एवेति भारतोत्तरभागगः |
कौरवानीकरक्षायै दक्षिणायां दिशि स्थितः || २४ ||
हे निर्ऋते प्रपद्ये त्वं मुच पाशं मम प्रभो |
ग्रीवस्थं देवि दुर्मोक्यं चिरंजीवीं च मां कुरु || २५ ||
अयस्मयं विश्वरूपे शृङ्खलावद्दृढं मुच |
स्वर्गप्राप्तेर्बन्धकं त्वत्पाप्मानं पाशमास्थितम् || २६ ||
तदर्थमिष्टकामास्ये क्रूरे जुहोमि निर्ऋते |
ऊषरं विदुरल्पज्ञा देवीति वेद्म्यहं धिया || २७ ||
स्तेनः प्रच्छन्नचोरो य|स्तस्करो प्रकटश्च यः |
कृपणोऽयजमानश्च तव पाशैर्हृतोऽस्तु वै |
दाता च यजमानश्च अबद्धोऽस्तु त्वया सदा || २८ ||
स्तुतिभिर्निर्ऋतिं देवीं वशीकरोमि सर्वदा |
या वेत्ति सर्वजातानां चौर्यं नमामि नैर्ऋतिम् || २९ ||
वन्देऽहं नैर्ऋतं देवं निर्ऋतात्मजमीश्वरम् |
नैर्ऋतस्य दिशो देवीं सर्वबाधानिवृत्तये || ३० ||
(— तैत्तिरीयकृष्णयजुर्वेदसंहितोद्धृतम्)
Monday, April 30, 2018
यमस्तुतिः
यमस्तुतिः
यमो वैवस्वतो राजा शैमिनीपत्तनस्य च |
धर्मात्मा कालरूपश्च कठोरनियमी तथा ||१||
दक्षिणाधिपतिर्देवः सर्वप्राणापहारकः |
यमपाशसुयोगेन प्राणिनामायुषोऽन्तिके ||२||
यमो यमवतां श्रेष्ठो नचिकेतगुरुः पुरा |
ब्रह्मज्ञो भयकृच्चित्र|गुप्तेशो मत्तवाहनः ||३||
प्राणिनां पुण्यपापानां कर्मणां दण्डधायकः |
ईश्वरेण तदर्थं वै नियुक्तो दक्षिणे स्थितः || ४ ||
भविष्ये च पुराणे तु चतुर्दशयमाः स्मृताः |
दिक्पालास्तु हि भेदत्वे तान्यथावत् स्मराम्यहम् || ५ ||
यमाय धर्मराजाय मृत्यवे चान्तकाय च |
वैवस्वताय कालाय सर्वभूतक्षयाय च || ६ ||
औदुंबराय दध्नाय नीलाय परमेष्ठिने |
वृकोदराय चित्राय चित्रगुप्ताय वै नमः || ७ ||
संयमिनीपुराधीशः सूर्य-संज्ञासुतः परः |
अग्रजो यमुनायाश्च शनेरपरसोदरः || ८ ||
माण्डव्यो दण्डितस्तेन तस्माद्विदुरतां गतः |
युधिष्ठिरपिता देवोऽर्जुनाय वरदायकः || ९ ||
सावित्र्यास्तु परं ज्ञानं वीक्ष्य तत्पतिमार्पयत् |
परीक्ष्य यक्षरूपेण युधिष्ठिरं वरं ददौ || १० ||
मार्कण्डेयविचारे तु शिवकोपमवाप्तवान् |
रामावतारपूर्णत्वे ब्रह्माज्ञापरतः पुनः |
रामं सुज्ञापयामासा|वतारसुसमाप्तिकम् || ११ ||
यमराड्धर्मराजश्च समवर्ती परेतराट् || १२ ||
पितृपतिः कृतान्तश्च शमनो दण्डधारकः |
श्राद्धदेवोऽन्तको धर्मो हरिः कीनाश एव च || १३ ||
जीवितेशस्तु जीवानां यमयति फलाफलम् |
महिषध्वजरूपश्च कङ्को महिषवाहनः || १४ ||
कर्मकरः शीर्णपादो प्रेतेशो भीमशासनः |
तदुत्पत्तिकथा प्रोक्ता मार्कण्डेयपुराणके || १५ ||
संज्ञा च रविणा दृष्टा निमीलयति लोचने |
यतस्ततः सरोषोऽर्कः संज्ञां निष्ठुरमब्रवीत् || १६ ||
मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् |
तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम् || १७ ||
पाद्मे क्रियायागसारनामद्वाविंशके तथा |
अध्याये वर्णितं रूपं मृत्योः पुण्यात्मनां प्रति || १८ ||
नानागतांस्ततो दृष्ट्वा नरान् धर्मपरायणान् |
भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत् || १९ ||
चतुर्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः |
शंखचक्रगदापद्मधारी गरुडवाहनः || २० ||
स्वर्णयज्ञोपवीती च स्मेरचारुतराननः |
किरीटी कुण्डली चैव वनमालाविभूषितः || २१ ||
पापिनां प्रति यद्रूपं दर्श्यते मृत्युना श्रुणु |
त्रिंशद्योजनदीर्घाङ्गो वापीसदृशलोचनः || २२ ||
धूम्रवर्णो महातेजाः प्रलयाम्भोधरध्वनिः |
तृणाधिराजलोमांश्च ज्वलदग्निशिखाग्रवत् || २३ ||
नासारन्ध्रस्फुरच्छ्वास|स्वनैर्जितमहानिलः |
सुदीर्घदशनश्रेणिः सूर्पोपमनखावलिः || २४ ||
प्रचण्डमहिषारूढः सन्दष्टदवनच्छदः |
दण्डहस्तश्चर्मवासा भ्रुकुटीकुटिलाननः || २५ ||
व्यासभारतमध्ये च सभापर्वे यमस्य तु |
युधिष्ठिराय चाख्यातं नारदेन महासभाम् || २६ ||
|| नारद उवाच ||
कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् |
वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह || २७ ||
तैजसी सा सभा राजन् बभूव शतयोजना |
विस्तारायामसंपन्ना भूयसी चापि पाण्डव || २८ ||
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी |
नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी || २९ ||
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् |
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत || ३० ||
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः |
रसवच्च प्रभूतं च भक्ष्यभोज्यमरिन्दम || ३१ ||
पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः |
रसवन्ति च तोयानि शीतान्युष्णानि चैव ह || ३२ ||
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः |
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते || ३३ ||
ब्रह्मवैवर्तके पुण्ये पुराणे प्रकृतखंडके |
अष्टाविंशतिकेऽध्याये यमाष्टकमुदीरितम् || ३४ ||
|| सावित्र्युवाच ||
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा |
धर्मांशं यं सुतं प्राप धर्मराजं नमाम्यहम् || ३५ ||
समता सर्वभूतेलु यस्य सर्वस्य साक्षिणः |
अतो यन्नाम शमन|मिति तं प्रणमाम्यहम् || ३६ ||
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् |
कर्मानुरूपकालेन तं कृतान्तं नमाम्यहम् || ३७ ||
विभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे |
नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् || ३८ ||
विश्वे यः कलयत्येव सर्वायुश्चापि सन्ततम् |
अतीवदुर्निवार्यं च तं कालं प्रणमाम्यहम् || ३९ ||
तपस्वी वैष्णवो धर्मी संयमी विजितेंद्रियः |
जीविनां कर्मफलदं तं यमं प्रणमाम्यहम् || ४० ||
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् |
पापिनां क्लेशदो यश्च पुण्यं मित्रं नमाम्यहम् || ४१ ||
यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा |
यो ध्यायति परंब्रह्म ब्रह्मवंशं नमाम्यहम् || ४२ ||
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने |
यमस्तां विष्णुभजनं कर्मपाकमुवाच ह || ४३ ||
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् |
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते || ४४ ||
महापापी यदि पठेत् नित्यं भक्त्या च नारद |
यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् || ४५ ||
Sunday, April 29, 2018
श्रीनृसिंहभुजङ्गप्रयातस्तवः
॥ श्रीनृसिंहभुजङ्गप्रयातस्तवः ॥
ऋतं कर्तुमेवाशु नम्रस्य वाक्यं
सभास्तम्भमध्याद्य आविर्बभूव ।
तमानम्रलोकेष्टदानप्रचण्डं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ १ ॥
इनान्तर्दृगन्तश्च गाङ्गेयदेहं
सदोपासते यं नराः शुद्धचित्ताः ।
तमस्ताघमेनोनिवृत्त्यै नितान्तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ २ ॥
शिवं शैववर्या हरिं वैष्णवाग्र्याः
पराशक्तिमाहुस्तथा शक्तिभक्ताः ।
यमेवाभिधाभिः परं तं विभिन्नं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ३ ॥
कृपासागरं क्लिष्टरक्षाधुरीणं
कृपाणं महापापवृक्षौघभेदे ।
नतालीष्टवाराशिराकाशशाङ्कं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ४ ॥
जगन्नेति नेतीति वाक्यैर्निषिद्ध्या-
वशिष्टं परब्रह्मरूपं महान्तः ।
स्वरूपेण विज्ञाय मुक्ता हि यं तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ५ ॥
नतान्भोगसक्तानपीहाशु भक्तिं
विरक्तिं च दत्वा दृढां मुक्तिकामान् ।
विधातुं करे कङ्कणं धारयन्तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ६ ॥
नरो यन्मनोर्जापतो भक्तिभावा-
च्छरीरेण तेनैव पश्यत्यमोघाम् ।
तनुं नारसिंहस्य वक्तीति वेदो
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ७ ॥
यदङ्घ्र्यब्जसेवापराणां नराणां
विरक्तिर्दृढा जायतेऽर्थेषु शीघ्रम् ।
तमङ्गप्रभाधूत पूर्णेन्दुकोटिं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ८ ॥
रथाङ्गं पिनाकं वरं चाभयं यो
विधत्ते कराब्जैः कृपावारिराशिः ।
तमिन्द्वच्छदेहं प्रसन्नास्यपद्मं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ९ ॥
रथाङ्गं पिनाकं वरं चाभयं च
प्रफुल्लाम्बुजाकारहस्तैर्दधानम् ।
फणीन्द्रातपत्रं शुचीनेन्दुनेत्रं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ १० ॥
विवेकं विरक्तिं शमादेश्च षट्कं
मुमुक्षां च सम्प्राप्य वेदान्तजालैः ।
यतन्ते विबोधाय यस्यानिशं तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ११ ॥
सदा नन्दिनीतीरवासैकलोलं
मुदा भक्तलोकं दृशा पालयन्तम् ।
विदामग्रगण्या नताःस्युर्यदङ्घ्रौ
नमस्कुर्महे शैलवासं नृसिंहम् ॥ १२ ॥
यदीय स्वरूपं शिखा वेदराशे-
रजस्रं मुदा सम्यगुद्घोषयन्ति ।
नलिन्यास्तटे स्वैरसञ्चारशीलं
चिदानन्दरूपं तमीडे नृसिंहम् ॥ १३ ॥
यमाहुर्हि देहं हृषीकाणि केचित्
परेऽसूंस्तथा बुद्धिशून्ये तथान्ये ।
यदज्ञानमुग्धा जना नास्तिकाग्र्याः
सदानन्दरूपं तमीडे नृसिंहम् ॥ १४ ॥
सदानन्दचिद्रूपमाम्नायशीर्षै-
र्विचार्यार्यवक्त्राद्यतीन्द्रा यदीयम् ।
सुखेनासते चित्तकञ्जे दधानाः
सदानन्दचिद्रूपमीडे नृसिंहम् ॥ १५ ॥
पुरा स्तम्भमध्याद्य आविर्बभूव
स्वभक्तस्य कर्तुं वचस्तथ्यमाशु ।
तमानन्दकारुण्यपूर्णान्तरङ्गं
बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ १६ ॥
पुरा शङ्करार्या धराधीशभृत्यै-
र्विनिक्षिप्तवह्निप्रतप्तस्वदेहाः ।
स्तुवन्ति स्म यं दाहशान्त्यै जवात्तं
बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ १७ ॥
सदेमानि भक्त्याख्यसूत्रेण दृब्धा-
न्यमोघानि रत्नानि कण्ठे जना ये ।
धरिष्यन्ति तान्मुक्तिकान्ता वृणीते
सखीभिर्वृता शान्तिदान्त्यादिमाभिः ॥ १८ ॥
श्रीनृसिंहसप्तकम्
॥ श्रीनृसिंहसप्तकम् ॥
अद्वैतवास्तव्यमतेः प्रणमज्जनानां
सम्पादनाय धृतमानवसिंहरूपम् ।
प्रह्लादपोषणरतं प्रणतैकवश्यं
देवं मुदा कमपि नौमि कृपासमुद्रम् ॥ १ ॥
नतजनवचनऋतत्व-
प्रकाशकालस्य दैघ्र्यमसहिष्णुः ।
आविर्बभूव तरसा
यः स्तम्भान्नौमि तं महाविष्णुम् ॥ २ ॥
वक्षो विदारणं य-
श्चक्रे हार्दं तमो हन्तुम् ।
शत्रोरपि करुणाब्धिं
नरहरिवपुषं नमामि तं विष्णुम् ॥ ३ ॥
रिपुहृदयस्थितराजस-
गुणमेवासृङिमिषेण करजाग्रैः ।
धत्ते यस्तं वन्दे
प्रह्लादपूर्वभाग्यनिचयमहम् ॥ ४ ॥
प्रह्लादं प्रणमज्जन-
पङ्क्तेः कुर्वन्ति दिविषदो ह्यन्ये ।
प्रह्लादप्रह्लादं
चित्रं कुरुते नमामि यस्तमहम् ॥ ५ ॥
शरदिन्दुकुन्दधवलं
करजप्रविदारितासुराधीशम् ।
चरणाम्बुजरतवाक्यं
तरसैव ऋतं प्रकुर्वदहमीडे ॥ ६ ॥
मुखेन रौद्रो वपुषा च सौम्यः
सन्कञ्चनार्थं प्रकटीकरोषि ।
भयस्य कर्ता भयहृत्त्वमेवे-
त्याख्याप्रसिद्धिर्यदसंशयाभूत् ॥ ७ ॥
Sunday, March 18, 2018
श्रीरामोदन्त: बालकाण्डः १३-१८
*श्रीरामोदन्त:*
_अथ बालकाण्ड:_
*मूल श्लोक:*
*तदाकर्ण्य सुरै: साकं प्राप्य दुग्धोदधेस्तटम् ।*
*तुष्टाव च हृषीकेशं विधाता विविधै: स्तवै: ॥१३॥*
*पदविभाग:*
तदा आकर्ण्य सुरै: साकं प्राप्य दुग्धोदधे: तटम् तुष्टाव च हृषीकेशं विधाता विविधै: स्तवै:
*अन्वय:*
तदा आकर्ण्य विधाता
सुरै: साकं दुग्धोदधे: तटम्
प्राप्य च हृषीकेशं विविधै: स्तवै: तुष्टाव ।
*तात्पर्यम्*
यदा देवा: विधातारम् उक्तवन्त: तदा स: तत् श्रृत्वा सुरै: सह दुग्धोदधे: तटम् प्राप्य श्रीमहाविष्णुम् नानाविध स्तवै: सन्तुष्टवान् ।
*व्याकरणम्*
♦सन्धि:
तदा + आकर्ण्य - सवर्णदीर्घसन्धि:
दुग्धिदधे: + तटम् - विसर्ग सकार:
हृषीकेश: - हृषीकानाम् ईश: षष्ठीतत्पुरुष:
तुष्टाव - स्तु धातु: परस्मैपदि धातु: लिट् लकार: प्रथमपुरुष:
तुष्टाव-तुष्टुवतु:-तुष्टुवु:
*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_
*मूल श्लोक:*
*आविर्भूयाथ दैत्यारि: पप्रच्छ च पितामहम् ।*
*किमर्थमागतोसि त्वं*
*साकं देवगणैरिति ॥ १૪॥*
*पदविभाग:*
आविर्भूय अथ दैत्यारि: पप्रच्छ च पितामहम्
किमर्थम् अागत: आसि त्वं
साकं देवगणै: इति
*अन्वय:*
अथ आविर्भूय दैत्यारि:
पितामहम् किमर्थम् त्वं देवगणै: साकं च अागत: आसि इति पप्रच्छ ।
*तात्पर्यम्*
ब्रह्मा देवगणै: सह महाविष्णुम् मेलितुम् गतवान् । अत्र महाविष्णु: तेषां मध्ये आविर्भूय *"पितामह ! त्वं किमर्थम् देवगणै: सह अत्र अगत:"* इति पृष्टवान् ।
*व्याकरणम्*
♦सन्धि:
आविर्भूय + अथ - सवर्णदीर्घसन्धि:
अगत: + असि - विसर्ग उकार: पूर्वरूपसन्धि:
देवगणै: + इति - विसर्ग रेफ:
♦समास:
दैत्यारि: - दैत्यानाम् अरि: - षष्ठीतत्पुरुष:
*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_
*मूल श्लोक:*
*ततो दशाननात् पीडाम् अजस्तस्मै न्यवेदयत् ।*
*तच्छ्रुत्वोवाच धातारं हर्षयन् विष्टरश्रवा: ॥१५॥*
*पदविभाग:*
तत: दशाननात् पीडाम् अज: तस्मै न्यवेदयत्
तत् श्रृत्वा उवाच धातारं हर्षयन् विष्टरश्रवा:
*अन्वय:*
तत: अज: दशाननात् पीडाम् तस्मै न्यवेदयत् ।
तत् श्रृत्वा विष्टरश्रवा: हर्षयन् धातारं उवाच ।
*तात्पर्यम्*
पश्चात् ब्रह्मा रावणात् पीडाम् अवदत् । तत् श्रृत्वा श्रीविष्णु: हर्षयन् धातारम् अवदत् ।
*व्याकरणम्*
♦सन्धि:
तत: + दशाननात् - विसर्ग उकार:
अज: + तस्मै - विसर्गसकार:
तत् + श्रृत्वा - छत्वसन्धि:
श्रृत्वा + उवाच - गुणसन्धि:
न जायते इति अज: (ब्रह्मा)
विष्टरश्रवा: - महाविष्णु:
उवाच - *ब्रू* परस्मैपदि धातु: लिट् लकार प्रथमपुरुष:
_उवाच-ऊचतु:-ऊचु:_
*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_
*मूल श्लोक:*
*अलं भयेनात्मयोने ! गच्छ देवगणै: सह ।*
*अहं दाशरथिर्भूत्वा हनिष्यामि दशाननम् ॥१६॥*
*पदविभाग:*
अलं भयेन आत्मयोने ! गच्छ देवगणै: सह अहं दाशरथि: भूत्वा हनिष्यामि दशाननम्
*अन्वय:*
हे आत्मयोने ! अलं भयेन। (त्वम् ) देवगणै: सह गच्छ । अहं दाशरथि: भूत्वा दशाननम् हनिष्यामि ।
*तात्पर्यम्*
हे अज! भयम् मास्तु । त्वं देवगणै: सह गच्छ । अहं दशरथस्य पुत्ररूपेण जनित्वा दशाननं हनिष्यामि ।
*व्याकरणम्*
♦सन्धि:
भयेन + आत्मयोने - सवर्णदीर्घसन्धि:
दाशरथि: + भूत्वा - विसर्ग रेफ:
दशरथस्य अपत्यं पुमान् दाशरथि:
🏹🏹🏹🏹🏹🏹
~ ✍ *शरवण:*
*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_
*मूल श्लोक:*
*आत्मांशैश्च सुरा: सर्वे भूमौ वानररूपिण: ।*
*जायेरन् मम साहाय्यं कर्तुं रावणनिग्रहे ॥१७॥*
*पदविभाग:*
आत्मांशै: च सुरा: सर्वे भूमौ वानररूपिण: जायेरन् मम साहाय्यं कर्तुं रावणनिग्रहे
*अन्वय:*
रावणनिग्रहे मम साहाय्यं कर्तुं सुरा: सर्वे आत्मांशै: च भूमौ वानररूपिण: जायेरन् ।
*तात्पर्यम्*
सर्वे देवा: अपि आत्मांशै: च भूमौ रावणनिग्रहे मम साहाय्यं कर्तुं वानररूपिण: (इव) जायेरन् ।
व्याकरणम्
♦सन्धि:
आत्मांशै: + च - विसर्गसकार:
जायरेन् - जन् आत्मनेपदि धातु:
विधिलिङ् प्रथमपुरुष:
जायेत-जायेयाताम् -जायेरन्
मूल श्लोक:
एवमुक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः ।
पद्मयोनिस्तु गीर्वाणैः समं प्रायात्प्रहृष्टधीः ॥१८॥
पदविभाग:
एवम् उक्त्वा विधातारं तत्र एव अन्तर्दधे प्रभुः पद्मयोनिः तु गीर्वाणैः समं प्रायात् प्रहृष्टधीः
अन्वय:
एवम् विधातारं उक्त्वा प्रभुः तत्र एव अन्तर्दधे । पद्मयोनिः तु प्रहृष्टधीः गीर्वाणैः समं प्रायात् ।
तात्पर्यम्
महाविष्णु: एवं समाधान वाक्यम उक्तवा तत्र एव अन्तर्गत: । महाविष्णो: वाक्येन सन्तुष्ट ब्रह्मा सन्तोषेण देवा: सह प्रायात् ।
व्याकरणम्
♦सन्धि:
पद्मयोनिः + तु - विसर्गसकार:
♦समास:
पद्मयोनिः - पद्मं योनि: यस्य स: बहुव्रीहि:
प्रायात् - या धातु: परस्मैपदि लङ लकार: प्रथमपुरुष:
_अयात्- अयाताम्- अयान्/अयु:_
प्र + अयात् = प्रायात्