I would like to provide information against whatever Subject I have known. This blog is best viewed on Google Chrome.
Thursday, November 8, 2018
ಶ್ರೀ ವರಸಿದ್ಧಿವಿನಾಯಕ ಸ್ತೋತ್ರಂ
Friday, May 11, 2018
निर्ऋति(/निरृति)स्तुतिः
निर्ऋति(/निरृति)स्तुतिः
निरृतिं नैरृताधीशं यमपश्चिममध्यगम् |
राक्षसाधिपतिं वन्दे देवमशन्निवृत्तये || १ ||
निर्गता ऋतिरस्मात्तु वाऽशुभं निर्ऋतिः स्मृतः |
ऋतिः शुभं च दद्यान्नो निरुपद्रवकारकः || २ ||
नैरृतो मारुतो वर्षं ददाति भारते यदा |
वर्षाकाले तु संप्राप्ते धान्यवृद्धिं करोति नः || ३ ||
पूर्वस्यां तु सुकान्तस्य रक्षकूटाह्वयो गिरिः |
यत्राऽऽस्ते सततं देवो निर्-ऋती राक्षसेश्वरः || ४ ||
खड्गहस्तो महाकायो वामे चर्मधरस्तथा |
जटाजूटसमायुक्तः प्रांशुकृष्णाचलोपमः || ५ ||
द्विभुजः कृष्णवस्त्रस्तु गर्दभोपरिसंस्थितः |
प्रान्तोपान्तौ बिन्दुसर्गसहितौ वादिरेव च || ६ ||
नैर्ऋत्यं कथितं बीजं तेन तं परिपूजयेत् |
रक्षकूटं समारुह्य निर्ऋतिं राक्षसेश्वरम् || ७ ||
यः पूजयेद्विधानेन चण्डिकां राक्षसेश्वरीम् |
न तस्य राक्षसेभ्योऽस्ति भयं वाऽपि कदाचन || ८ ||
राक्षसाश्च पिशाचाश्च वेताला गणनायकाः |
तं दृष्ट्वा पुरुषं ह्येते सर्वदैव प्रबिभ्यति || ९ ||
इत्युक्तं कालिकायां तु पुराणे निर्ऋतिप्रथाम् |
ऋग्वेदे कथितो पाप|देवतेति हि निर्ऋतिः || १० ||
सङ्घातः कालसूत्रं चे|त्याद्याः सत्त्वास्तु नारकाः |
प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः || ११ || (—अमरकोषे)
मृत्युदेवतया युक्ता भयमृत्योश्च मातृका |
महाभयस्य माता च ह्यधर्मस्य सती तथा || १२ ||
(—महाभारते)
अधर्महिंसयोः पुत्री भयनरकयोः प्रसूः | (—मार्कण्डेयपुराणे)
निर्ऋतिर्भूतलस्थानः प्रकोथस्य तथैव च || १३ ||
मरणं च तथा प्रोक्तस्तथैको रुद्र एव च |
वसूनामेकरूपश्च हरिवंशे प्रकीर्तितः || १४ ||
अधर्मयमलान् पुत्रान् आजग्राह ह्यपुत्रकः |
पारिजातप्रसङ्गे तु कृष्णाच्चैव पराङ्मुखः || १५ ||
अर्जुनेन पुरान्विष्टं तत्पुरं विप्रपुत्रये |
मृतस्सो वै तु संप्राप्तः दक्षिणारूपया गुरोः || १६ ||
पुरंजनपुरीद्वारे|ष्वेको पश्चिमभागतः |
तत्पुरी वैशसः प्रोक्तो गुदोऽपीति ह्युदीरितः || १७ ||
मुहूर्त इति चाप्युक्तो दिनस्य निर्ऋतिस्तथा |
ललितायाः परो भक्तो निर्ऋतिरिति कीर्तितः || १८ ||
सुदेवीधर्मपुत्रश्च वसूनामेक एव तु |
निर्ऋतिर्देवशैलश्च ब्रह्महत्यां व्यपोहति || १९ ||
ज्यौतिषे नैर्ऋतं प्राहू राहुनाम्ना दिशाधिपम् || २० ||
नैर्ऋतः कौणपः क्रव्याद् क्रव्यादोऽस्रप एव च |
रात्रिञ्चरोऽऽशरश्चैव रात्रिचरस्तु कर्बुरः |
यातुधानः पुण्यजनो यातुश्च निकषात्मजः || २१ || (—अमरकोषे)
निर्ऋतेरप्यपत्यं च नैर्ऋतेति हि कथ्यते |
कल्पभेदे मृत्युभार्या नैर्ऋतेति च कीर्तितः || २२ ||
मूलनक्षत्रदेवश्च चंद्रलोकसमाश्रितः |
राक्षसानां च संबंधी कुबेरानुग एव च || २३ ||
देवराक्षस एवेति भारतोत्तरभागगः |
कौरवानीकरक्षायै दक्षिणायां दिशि स्थितः || २४ ||
हे निर्ऋते प्रपद्ये त्वं मुच पाशं मम प्रभो |
ग्रीवस्थं देवि दुर्मोक्यं चिरंजीवीं च मां कुरु || २५ ||
अयस्मयं विश्वरूपे शृङ्खलावद्दृढं मुच |
स्वर्गप्राप्तेर्बन्धकं त्वत्पाप्मानं पाशमास्थितम् || २६ ||
तदर्थमिष्टकामास्ये क्रूरे जुहोमि निर्ऋते |
ऊषरं विदुरल्पज्ञा देवीति वेद्म्यहं धिया || २७ ||
स्तेनः प्रच्छन्नचोरो य|स्तस्करो प्रकटश्च यः |
कृपणोऽयजमानश्च तव पाशैर्हृतोऽस्तु वै |
दाता च यजमानश्च अबद्धोऽस्तु त्वया सदा || २८ ||
स्तुतिभिर्निर्ऋतिं देवीं वशीकरोमि सर्वदा |
या वेत्ति सर्वजातानां चौर्यं नमामि नैर्ऋतिम् || २९ ||
वन्देऽहं नैर्ऋतं देवं निर्ऋतात्मजमीश्वरम् |
नैर्ऋतस्य दिशो देवीं सर्वबाधानिवृत्तये || ३० ||
(— तैत्तिरीयकृष्णयजुर्वेदसंहितोद्धृतम्)
Monday, April 30, 2018
यमस्तुतिः
यमस्तुतिः
यमो वैवस्वतो राजा शैमिनीपत्तनस्य च |
धर्मात्मा कालरूपश्च कठोरनियमी तथा ||१||
दक्षिणाधिपतिर्देवः सर्वप्राणापहारकः |
यमपाशसुयोगेन प्राणिनामायुषोऽन्तिके ||२||
यमो यमवतां श्रेष्ठो नचिकेतगुरुः पुरा |
ब्रह्मज्ञो भयकृच्चित्र|गुप्तेशो मत्तवाहनः ||३||
प्राणिनां पुण्यपापानां कर्मणां दण्डधायकः |
ईश्वरेण तदर्थं वै नियुक्तो दक्षिणे स्थितः || ४ ||
भविष्ये च पुराणे तु चतुर्दशयमाः स्मृताः |
दिक्पालास्तु हि भेदत्वे तान्यथावत् स्मराम्यहम् || ५ ||
यमाय धर्मराजाय मृत्यवे चान्तकाय च |
वैवस्वताय कालाय सर्वभूतक्षयाय च || ६ ||
औदुंबराय दध्नाय नीलाय परमेष्ठिने |
वृकोदराय चित्राय चित्रगुप्ताय वै नमः || ७ ||
संयमिनीपुराधीशः सूर्य-संज्ञासुतः परः |
अग्रजो यमुनायाश्च शनेरपरसोदरः || ८ ||
माण्डव्यो दण्डितस्तेन तस्माद्विदुरतां गतः |
युधिष्ठिरपिता देवोऽर्जुनाय वरदायकः || ९ ||
सावित्र्यास्तु परं ज्ञानं वीक्ष्य तत्पतिमार्पयत् |
परीक्ष्य यक्षरूपेण युधिष्ठिरं वरं ददौ || १० ||
मार्कण्डेयविचारे तु शिवकोपमवाप्तवान् |
रामावतारपूर्णत्वे ब्रह्माज्ञापरतः पुनः |
रामं सुज्ञापयामासा|वतारसुसमाप्तिकम् || ११ ||
यमराड्धर्मराजश्च समवर्ती परेतराट् || १२ ||
पितृपतिः कृतान्तश्च शमनो दण्डधारकः |
श्राद्धदेवोऽन्तको धर्मो हरिः कीनाश एव च || १३ ||
जीवितेशस्तु जीवानां यमयति फलाफलम् |
महिषध्वजरूपश्च कङ्को महिषवाहनः || १४ ||
कर्मकरः शीर्णपादो प्रेतेशो भीमशासनः |
तदुत्पत्तिकथा प्रोक्ता मार्कण्डेयपुराणके || १५ ||
संज्ञा च रविणा दृष्टा निमीलयति लोचने |
यतस्ततः सरोषोऽर्कः संज्ञां निष्ठुरमब्रवीत् || १६ ||
मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् |
तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम् || १७ ||
पाद्मे क्रियायागसारनामद्वाविंशके तथा |
अध्याये वर्णितं रूपं मृत्योः पुण्यात्मनां प्रति || १८ ||
नानागतांस्ततो दृष्ट्वा नरान् धर्मपरायणान् |
भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत् || १९ ||
चतुर्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः |
शंखचक्रगदापद्मधारी गरुडवाहनः || २० ||
स्वर्णयज्ञोपवीती च स्मेरचारुतराननः |
किरीटी कुण्डली चैव वनमालाविभूषितः || २१ ||
पापिनां प्रति यद्रूपं दर्श्यते मृत्युना श्रुणु |
त्रिंशद्योजनदीर्घाङ्गो वापीसदृशलोचनः || २२ ||
धूम्रवर्णो महातेजाः प्रलयाम्भोधरध्वनिः |
तृणाधिराजलोमांश्च ज्वलदग्निशिखाग्रवत् || २३ ||
नासारन्ध्रस्फुरच्छ्वास|स्वनैर्जितमहानिलः |
सुदीर्घदशनश्रेणिः सूर्पोपमनखावलिः || २४ ||
प्रचण्डमहिषारूढः सन्दष्टदवनच्छदः |
दण्डहस्तश्चर्मवासा भ्रुकुटीकुटिलाननः || २५ ||
व्यासभारतमध्ये च सभापर्वे यमस्य तु |
युधिष्ठिराय चाख्यातं नारदेन महासभाम् || २६ ||
|| नारद उवाच ||
कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् |
वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह || २७ ||
तैजसी सा सभा राजन् बभूव शतयोजना |
विस्तारायामसंपन्ना भूयसी चापि पाण्डव || २८ ||
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी |
नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी || २९ ||
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् |
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत || ३० ||
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः |
रसवच्च प्रभूतं च भक्ष्यभोज्यमरिन्दम || ३१ ||
पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः |
रसवन्ति च तोयानि शीतान्युष्णानि चैव ह || ३२ ||
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः |
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते || ३३ ||
ब्रह्मवैवर्तके पुण्ये पुराणे प्रकृतखंडके |
अष्टाविंशतिकेऽध्याये यमाष्टकमुदीरितम् || ३४ ||
|| सावित्र्युवाच ||
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा |
धर्मांशं यं सुतं प्राप धर्मराजं नमाम्यहम् || ३५ ||
समता सर्वभूतेलु यस्य सर्वस्य साक्षिणः |
अतो यन्नाम शमन|मिति तं प्रणमाम्यहम् || ३६ ||
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् |
कर्मानुरूपकालेन तं कृतान्तं नमाम्यहम् || ३७ ||
विभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे |
नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् || ३८ ||
विश्वे यः कलयत्येव सर्वायुश्चापि सन्ततम् |
अतीवदुर्निवार्यं च तं कालं प्रणमाम्यहम् || ३९ ||
तपस्वी वैष्णवो धर्मी संयमी विजितेंद्रियः |
जीविनां कर्मफलदं तं यमं प्रणमाम्यहम् || ४० ||
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् |
पापिनां क्लेशदो यश्च पुण्यं मित्रं नमाम्यहम् || ४१ ||
यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा |
यो ध्यायति परंब्रह्म ब्रह्मवंशं नमाम्यहम् || ४२ ||
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने |
यमस्तां विष्णुभजनं कर्मपाकमुवाच ह || ४३ ||
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् |
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते || ४४ ||
महापापी यदि पठेत् नित्यं भक्त्या च नारद |
यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् || ४५ ||