Showing posts with label ध्येयपथिक. Show all posts
Showing posts with label ध्येयपथिक. Show all posts

Monday, September 23, 2013

ध्येयपथिक साधक ऽऽ

ध्येयपथिक साधक ऽऽ
कार्यपथे साधय ऽऽ
मृदु हसन्‌ मधु किरन्‌ मातरं सदा स्मरन्‌॥
जीवनं न शाशवतं, वैभव न हि स्थिरम्‌
स्वार्थलेपनं विना, यत्कृतं हि तच्चिरम्‌
सरलता स्वजीवने ऽऽ
समाजपोषिता वयं समाजपोषकारियम्‌॥ ॥ध्येयपथिक॥
यच्च मनसि चिन्त्यते, यच्च कीर्त्यते गिरा
तच्च मूर्तरूपताम्‌, एति नित्यजीवने
जनन्यनन्यचरणयोः ऽऽ
समर्पितस्वजीवनाः ऽऽ
ध्येयसाधनाव्रता वयं भवेम र्सैंताः॥ ॥ध्येयपथिक॥
स्मरत्विहाग्रजन्मनां, त्यागबलिसमर्पणम्‌
सिंहकुलसमुभद्रवाः सिंहविक्रमा वयम्‌
सन्तुकष्टकोटयो ऽऽ
भवतु विध्नवर्षणं ऽऽ
सकृत्प्रतिज्ञका वयं भजेम नो पलायनम्‌॥ ॥ध्येयपथिक॥

-श्री जनार्दन हेगडे