ध्येयपथिक साधक ऽऽ
कार्यपथे साधय ऽऽ
मृदु हसन् मधु किरन् मातरं सदा स्मरन्॥
जीवनं न शाशवतं, वैभव न हि स्थिरम्स्वार्थलेपनं विना, यत्कृतं हि तच्चिरम्सरलता स्वजीवने ऽऽसमाजपोषिता वयं समाजपोषकारियम्॥ ॥ध्येयपथिक॥
यच्च मनसि चिन्त्यते, यच्च कीर्त्यते गिरा
तच्च मूर्तरूपताम्, एति नित्यजीवने
जनन्यनन्यचरणयोः ऽऽ
समर्पितस्वजीवनाः ऽऽ
ध्येयसाधनाव्रता वयं भवेम र्सैंताः॥ ॥ध्येयपथिक॥
स्मरत्विहाग्रजन्मनां, त्यागबलिसमर्पणम्सिंहकुलसमुभद्रवाः सिंहविक्रमा वयम्सन्तुकष्टकोटयो ऽऽभवतु विध्नवर्षणं ऽऽसकृत्प्रतिज्ञका वयं भजेम नो पलायनम्॥ ॥ध्येयपथिक॥
-श्री जनार्दन हेगडे