I would like to provide information against whatever Subject I have known. This blog is best viewed on Google Chrome.
Thursday, November 8, 2018
ಶ್ರೀ ವರಸಿದ್ಧಿವಿನಾಯಕ ಸ್ತೋತ್ರಂ
Sunday, May 13, 2018
मातृस्तोत्रम्
।।मातृस्तोत्रम्।।
पितुरप्यधिका माता गर्भधारणपोषणात्।
अतो हि त्रिषुलोकेषु नास्ति मातृसमो गुरुः।।
नास्ति गंगासमं तीर्थं नास्ति विष्णुसमः प्रभुः।।
नास्ति शम्भुसमःपूज्यो नास्ति मातृसमो गुरुः।।
नास्तिचैकादशीतुल्यं व्रतं त्रैलोक्यविश्रुतम्।
तपो नानशनात्तुलुयं नास्ति मातृसमो गुरुः।।
नास्ति भार्यासमं मित्रं नास्ति पुत्रसमः प्रियः।।
नास्ति भगिनीसमा मान्या नास्ति मातृसमो गुरुः।।
न जामातृसमं पात्रं न दानं कन्यया समम्।
न भ्रातृसदृशो बन्धुः न च मातृसमो गुरुः।।
देशो गङ्गान्तिकः श्रेष्ठो दलेषु तुलसीदलम्।
वर्णेषु ब्राह्मणः श्रेष्ठो गुरुर्माता गुरुषुवपि।।
पुरुषः पुत्ररूपेण भार्यामाश्रित्य जायते।
पूर्वभावाश्रया माता तेन सैव गुरुः परः।।
मातरं पितरं चेभौ दृष्ट्वा पुत्रस्तु धर्मवित्।
प्रणम्य मातरं पश्चात् प्रणमेत्पितरं गुरुम्।।
माता धरित्री जननी दयाऽर्द्रहृदया शिवा।
देवी त्रिभुवनश्रेष्ठा निर्दोषा सर्वदुःखहा।।
आराधनीया परमा दया शान्तिः क्षमा धृतिः।
स्वाहा स्वधा च गौरी च पद्मा च विजया जया।।
दुःखहन्त्रीति नामानि मातुरेवैकशिंशतिम्।
शृणुयाच्छ्रावयेन्मर्त्यः सर्वदुःखाद्विमुच्यते।।
दुःखैर्महद्भिर्नोऽपि दृष्ट्वा मातरमीश्वरम्।
यमानन्दं लभेन्मर्त्यः स किं वाचोपपद्यते।।
इति ते कथितं विप्र मातृस्तोत्रं महागुणम्।
पराशरमुखात्पूर्वमश्रौषं मातृसंस्तवम्।।
सेवित्वा पितरौ कश्चित् व्याधः परमधर्मवित्।
लेभे सर्वज्ञतां या तु साध्यते न तपस्विभिः।।
तस्मात्सर्वप्रयत्नेन भक्तिः कार्या तु मातरि।
पितरयपीति चोक्तं वै पित्रा शक्तिसुतेन मे।।
---इति व्यासप्रोक्तं मातृस्तोत्रं समाप्तम्।
Sunday, April 29, 2018
श्रीनृसिंहभुजङ्गप्रयातस्तवः
॥ श्रीनृसिंहभुजङ्गप्रयातस्तवः ॥
ऋतं कर्तुमेवाशु नम्रस्य वाक्यं
सभास्तम्भमध्याद्य आविर्बभूव ।
तमानम्रलोकेष्टदानप्रचण्डं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ १ ॥
इनान्तर्दृगन्तश्च गाङ्गेयदेहं
सदोपासते यं नराः शुद्धचित्ताः ।
तमस्ताघमेनोनिवृत्त्यै नितान्तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ २ ॥
शिवं शैववर्या हरिं वैष्णवाग्र्याः
पराशक्तिमाहुस्तथा शक्तिभक्ताः ।
यमेवाभिधाभिः परं तं विभिन्नं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ३ ॥
कृपासागरं क्लिष्टरक्षाधुरीणं
कृपाणं महापापवृक्षौघभेदे ।
नतालीष्टवाराशिराकाशशाङ्कं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ४ ॥
जगन्नेति नेतीति वाक्यैर्निषिद्ध्या-
वशिष्टं परब्रह्मरूपं महान्तः ।
स्वरूपेण विज्ञाय मुक्ता हि यं तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ५ ॥
नतान्भोगसक्तानपीहाशु भक्तिं
विरक्तिं च दत्वा दृढां मुक्तिकामान् ।
विधातुं करे कङ्कणं धारयन्तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ६ ॥
नरो यन्मनोर्जापतो भक्तिभावा-
च्छरीरेण तेनैव पश्यत्यमोघाम् ।
तनुं नारसिंहस्य वक्तीति वेदो
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ७ ॥
यदङ्घ्र्यब्जसेवापराणां नराणां
विरक्तिर्दृढा जायतेऽर्थेषु शीघ्रम् ।
तमङ्गप्रभाधूत पूर्णेन्दुकोटिं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ८ ॥
रथाङ्गं पिनाकं वरं चाभयं यो
विधत्ते कराब्जैः कृपावारिराशिः ।
तमिन्द्वच्छदेहं प्रसन्नास्यपद्मं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ९ ॥
रथाङ्गं पिनाकं वरं चाभयं च
प्रफुल्लाम्बुजाकारहस्तैर्दधानम् ।
फणीन्द्रातपत्रं शुचीनेन्दुनेत्रं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ १० ॥
विवेकं विरक्तिं शमादेश्च षट्कं
मुमुक्षां च सम्प्राप्य वेदान्तजालैः ।
यतन्ते विबोधाय यस्यानिशं तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ११ ॥
सदा नन्दिनीतीरवासैकलोलं
मुदा भक्तलोकं दृशा पालयन्तम् ।
विदामग्रगण्या नताःस्युर्यदङ्घ्रौ
नमस्कुर्महे शैलवासं नृसिंहम् ॥ १२ ॥
यदीय स्वरूपं शिखा वेदराशे-
रजस्रं मुदा सम्यगुद्घोषयन्ति ।
नलिन्यास्तटे स्वैरसञ्चारशीलं
चिदानन्दरूपं तमीडे नृसिंहम् ॥ १३ ॥
यमाहुर्हि देहं हृषीकाणि केचित्
परेऽसूंस्तथा बुद्धिशून्ये तथान्ये ।
यदज्ञानमुग्धा जना नास्तिकाग्र्याः
सदानन्दरूपं तमीडे नृसिंहम् ॥ १४ ॥
सदानन्दचिद्रूपमाम्नायशीर्षै-
र्विचार्यार्यवक्त्राद्यतीन्द्रा यदीयम् ।
सुखेनासते चित्तकञ्जे दधानाः
सदानन्दचिद्रूपमीडे नृसिंहम् ॥ १५ ॥
पुरा स्तम्भमध्याद्य आविर्बभूव
स्वभक्तस्य कर्तुं वचस्तथ्यमाशु ।
तमानन्दकारुण्यपूर्णान्तरङ्गं
बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ १६ ॥
पुरा शङ्करार्या धराधीशभृत्यै-
र्विनिक्षिप्तवह्निप्रतप्तस्वदेहाः ।
स्तुवन्ति स्म यं दाहशान्त्यै जवात्तं
बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ १७ ॥
सदेमानि भक्त्याख्यसूत्रेण दृब्धा-
न्यमोघानि रत्नानि कण्ठे जना ये ।
धरिष्यन्ति तान्मुक्तिकान्ता वृणीते
सखीभिर्वृता शान्तिदान्त्यादिमाभिः ॥ १८ ॥
श्रीनृसिंहसप्तकम्
॥ श्रीनृसिंहसप्तकम् ॥
अद्वैतवास्तव्यमतेः प्रणमज्जनानां
सम्पादनाय धृतमानवसिंहरूपम् ।
प्रह्लादपोषणरतं प्रणतैकवश्यं
देवं मुदा कमपि नौमि कृपासमुद्रम् ॥ १ ॥
नतजनवचनऋतत्व-
प्रकाशकालस्य दैघ्र्यमसहिष्णुः ।
आविर्बभूव तरसा
यः स्तम्भान्नौमि तं महाविष्णुम् ॥ २ ॥
वक्षो विदारणं य-
श्चक्रे हार्दं तमो हन्तुम् ।
शत्रोरपि करुणाब्धिं
नरहरिवपुषं नमामि तं विष्णुम् ॥ ३ ॥
रिपुहृदयस्थितराजस-
गुणमेवासृङिमिषेण करजाग्रैः ।
धत्ते यस्तं वन्दे
प्रह्लादपूर्वभाग्यनिचयमहम् ॥ ४ ॥
प्रह्लादं प्रणमज्जन-
पङ्क्तेः कुर्वन्ति दिविषदो ह्यन्ये ।
प्रह्लादप्रह्लादं
चित्रं कुरुते नमामि यस्तमहम् ॥ ५ ॥
शरदिन्दुकुन्दधवलं
करजप्रविदारितासुराधीशम् ।
चरणाम्बुजरतवाक्यं
तरसैव ऋतं प्रकुर्वदहमीडे ॥ ६ ॥
मुखेन रौद्रो वपुषा च सौम्यः
सन्कञ्चनार्थं प्रकटीकरोषि ।
भयस्य कर्ता भयहृत्त्वमेवे-
त्याख्याप्रसिद्धिर्यदसंशयाभूत् ॥ ७ ॥
Sunday, January 21, 2018
श्रीविनायकस्तोत्रम् (समंत्रकम्)
वारणास्यो दरघ्नोऽर्थ एकदन्तश्शिवात्मजः ।
सुशर्मकृत्तारकोऽर्च्यः कविस्तत्पुरुषप्रियः ॥ १ ॥
देवः पवित्रेक्षणोर्द्यो दन्ती चारुस्त्रिलोचनः ।
वाग्मीशो मायातीतात्मा तापशोषाख्य आखुगः ॥ २ ॥
नन्दीवन्द्यो यमीशानो यशस्वी यशआस्पदः ।
दर्शनीयो विघ्नराजो विघ्नहा विघ्नकृद्विराट् ॥ ३ ॥
सभ्यो हृत्पद्मनिलयोऽत्पद्मरसपद्मविहापकः ।
रक्तांगोऽर्को हेममाली हेरम्बो हेमदंष्ट्रकः ॥ ४ ॥
स्वराट्प्रभा अजोऽनन्तो वरेण्यो मतिमान् गुणी ।
तीर्थकीर्तिर् वरकरः क्रत्वीशो हापितासुरः ॥ ५ ॥
कृपाकरो धूम्रकेतुस् तुं दिलो देववल्लभः ।
तपस्वीशस् तापहरो डाकिनीवारितोभयः ॥ ६ ॥
विश्र्वप्रियो यक्षवन्द्यो यष्टानयविवर्धनः ।
नानारुपो धीर आद्यो धीमतान्धीरकःसुधीः ॥ ७ ॥
यमीश्र्वरो महाहस्ती महात्मा मह उत्तमः ।
कर्ताऽकर्ता हितकरो हितज्ञो हितशासनः ॥ ८ ॥
स्तोता स्तव्यस् तं त्रमूलस्तन्त्रज्ञस्तन्त्रविग्रहः ।
त्रयीवंद्यो नोदनाद्यो नोदना नोदित द्विजः ॥ ९ ॥
मित्राभो मदनस्मेरो दन्ती मरुदुपासितः ।
दण्डो प्रमत्तः शास्तार्थस् तीर्थमिन्द्रःस्तुतोऽघहा ॥ १० ॥
सत्यसङ्घः प्रकाशात्मा प्रसन्नः प्रणतार्तिहा ।
मंत्रविद्या चोदितात्मा चोदनाचोदिताऽखिलः ॥ ११ ॥
त्रयीधर्मो दशातीतो दक्षोऽभेद उमासुतः ।
कं नः स देयात् प्रणुतोऽयात् स पायात्सदा भयात् ॥ १२ ॥
॥ इति श्रीमत् परमहंस परिव्राजकाचार्य श्रेवासुदेवानन्दसरस्वतीविरचितं समन्त्रकं श्रीविनायक स्तोत्रं संपूर्णम् ॥