Monday, September 23, 2013

ध्येयपथिक साधक ऽऽ

ध्येयपथिक साधक ऽऽ
कार्यपथे साधय ऽऽ
मृदु हसन्‌ मधु किरन्‌ मातरं सदा स्मरन्‌॥
जीवनं न शाशवतं, वैभव न हि स्थिरम्‌
स्वार्थलेपनं विना, यत्कृतं हि तच्चिरम्‌
सरलता स्वजीवने ऽऽ
समाजपोषिता वयं समाजपोषकारियम्‌॥ ॥ध्येयपथिक॥
यच्च मनसि चिन्त्यते, यच्च कीर्त्यते गिरा
तच्च मूर्तरूपताम्‌, एति नित्यजीवने
जनन्यनन्यचरणयोः ऽऽ
समर्पितस्वजीवनाः ऽऽ
ध्येयसाधनाव्रता वयं भवेम र्सैंताः॥ ॥ध्येयपथिक॥
स्मरत्विहाग्रजन्मनां, त्यागबलिसमर्पणम्‌
सिंहकुलसमुभद्रवाः सिंहविक्रमा वयम्‌
सन्तुकष्टकोटयो ऽऽ
भवतु विध्नवर्षणं ऽऽ
सकृत्प्रतिज्ञका वयं भजेम नो पलायनम्‌॥ ॥ध्येयपथिक॥

-श्री जनार्दन हेगडे

Sunday, September 22, 2013

मृदपि च चन्दनम्‌

मृदपि च चन्दनमस्मिन्‌ देशे ग्रामो ग्रामः सिद्धवनम्‌ ।
यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ॥

हरिमन्दिरमिदमखिलशरीरम्‌
धनशक्ति-जनसेवायै
यत्र च क्रीडायै वनराजः
धेनुर्माता परमशिवा॥
नित्यं प्रातः शिवगुणगानं
दीपनुतिः खलु शत्रुपरा ॥ ॥मृदपि॥

भाग्यविधायि निजार्जित कर्म
यत्र श्रमः श्रियमर्जन्यति।
व्याग धनानां तपोनिधीनां
गाथां गायति कविवाष्पि
र्गैांजलमिव नित्यनिर्मलं
ज्ञानं शंसति यतिवाणी ॥ ॥मृदपि॥

यत्र हि नैव स्वदेहविमोहः
युद्धरतानां वीराणाम्‌ ।
यत्र हि कृषकः कार्यरतः सन्‌
पश्यति जीवनसाफल्यम्‌
जीवनलक्ष्यं न हि धनपदवी
यत्र च परशिव पद सेवा ॥ ॥मृदपि॥

-श्री जनार्दन हेगडे 

वन्दे भारतमातरं वद, भारत ! वन्दे मातरम्‌

वन्दे भारतमातरं वद, भारत ! वन्दे मातरम्‌,
वन्दे मातरम्‌, वन्दे मातरम, वन्दे मातरम्‌ ॥

जन्मभूरियं वीरवराणां त्यागधनानां धीराणाम्‌,
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम्‌ ।
जितकोपानां कृतकृत्यानां वित्तं तृणवद्‌ दृष्टवताम्‌,
मातृसेवनादात्मजीवने सार्थकतामानीतवताम्‌ ॥1॥


ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः,
अर्थसंचयस्त्यागहेतुको धर्मसम्मतः काम इह ।
नश्वरबुद्धिः क्षणपरिवर्तिनी काये आत्मन्यादरधीः,
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम्‌ ॥2॥


मातस्त्वत्तो वित्तं चित्तं सत्वं प्रतिभादेहबलम्‌,
नाहं कर्त्ता कारयसि त्वं निःस्पृहता मम कर्मफले ।
अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादतले,
नान्यो मन्त्रः नान्यचिन्तनं नान्यद्‌देशहिताद्धिः ऋते ॥3॥

-श्री जनार्दन हेगडे