Monday, April 30, 2018

यमस्तुतिः

यमस्तुतिः

यमो वैवस्वतो राजा शैमिनीपत्तनस्य च |

धर्मात्मा कालरूपश्च कठोरनियमी तथा ||१||

दक्षिणाधिपतिर्देवः सर्वप्राणापहारकः |

यमपाशसुयोगेन प्राणिनामायुषोऽन्तिके ||२||

यमो यमवतां श्रेष्ठो नचिकेतगुरुः पुरा |

ब्रह्मज्ञो भयकृच्चित्र|गुप्तेशो मत्तवाहनः ||३||

प्राणिनां पुण्यपापानां कर्मणां दण्डधायकः |

ईश्वरेण तदर्थं वै नियुक्तो दक्षिणे स्थितः || ४ ||

भविष्ये च पुराणे तु चतुर्दशयमाः स्मृताः |

दिक्पालास्तु हि भेदत्वे तान्यथावत् स्मराम्यहम् || ५ ||

यमाय धर्मराजाय मृत्यवे चान्तकाय च |

वैवस्वताय कालाय सर्वभूतक्षयाय च || ६ ||

औदुंबराय दध्नाय नीलाय परमेष्ठिने |

वृकोदराय चित्राय चित्रगुप्ताय वै नमः || ७ ||

संयमिनीपुराधीशः सूर्य-संज्ञासुतः परः |

अग्रजो यमुनायाश्च शनेरपरसोदरः || ८ ||

माण्डव्यो दण्डितस्तेन तस्माद्विदुरतां गतः |

युधिष्ठिरपिता देवोऽर्जुनाय वरदायकः || ९ ||

सावित्र्यास्तु परं ज्ञानं वीक्ष्य तत्पतिमार्पयत् |

परीक्ष्य यक्षरूपेण युधिष्ठिरं वरं ददौ || १० ||

मार्कण्डेयविचारे तु शिवकोपमवाप्तवान् |

रामावतारपूर्णत्वे ब्रह्माज्ञापरतः पुनः |

रामं सुज्ञापयामासा|वतारसुसमाप्तिकम् || ११ ||

यमराड्धर्मराजश्च समवर्ती परेतराट् || १२ ||

पितृपतिः कृतान्तश्च शमनो दण्डधारकः |

श्राद्धदेवोऽन्तको धर्मो हरिः कीनाश एव च || १३ ||

जीवितेशस्तु जीवानां यमयति फलाफलम् |

महिषध्वजरूपश्च कङ्को महिषवाहनः || १४ ||

कर्मकरः शीर्णपादो प्रेतेशो भीमशासनः |

तदुत्पत्तिकथा प्रोक्ता मार्कण्डेयपुराणके || १५ ||

संज्ञा च रविणा दृष्टा निमीलयति लोचने |

यतस्ततः सरोषोऽर्कः संज्ञां निष्ठुरमब्रवीत् || १६ ||

मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् |

तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम् || १७ ||

पाद्मे क्रियायागसारनामद्वाविंशके तथा |

अध्याये वर्णितं रूपं मृत्योः पुण्यात्मनां प्रति || १८ ||

नानागतांस्ततो दृष्ट्वा नरान् धर्मपरायणान् |

भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत् || १९ ||

चतुर्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः |

शंखचक्रगदापद्मधारी गरुडवाहनः || २० ||

स्वर्णयज्ञोपवीती च स्मेरचारुतराननः |

किरीटी कुण्डली चैव वनमालाविभूषितः || २१ ||

पापिनां प्रति यद्रूपं दर्श्यते मृत्युना श्रुणु |

त्रिंशद्योजनदीर्घाङ्गो वापीसदृशलोचनः || २२ ||

धूम्रवर्णो महातेजाः प्रलयाम्भोधरध्वनिः |

तृणाधिराजलोमांश्च ज्वलदग्निशिखाग्रवत् || २३ ||

नासारन्ध्रस्फुरच्छ्वास|स्वनैर्जितमहानिलः |

सुदीर्घदशनश्रेणिः सूर्पोपमनखावलिः || २४ ||

प्रचण्डमहिषारूढः सन्दष्टदवनच्छदः |

दण्डहस्तश्चर्मवासा भ्रुकुटीकुटिलाननः || २५ ||

व्यासभारतमध्ये च सभापर्वे यमस्य तु  |

युधिष्ठिराय चाख्यातं नारदेन महासभाम् || २६ ||

|| नारद उवाच ||

कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् |

वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह || २७ ||

तैजसी सा सभा राजन् बभूव शतयोजना |

विस्तारायामसंपन्ना भूयसी चापि पाण्डव || २८ ||

अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी |

नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी || २९ ||

न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् |

न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत || ३० ||

सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः |

रसवच्च प्रभूतं च भक्ष्यभोज्यमरिन्दम || ३१ ||

पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः |

रसवन्ति च तोयानि शीतान्युष्णानि चैव ह || ३२ ||

तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः |

यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते || ३३ ||

ब्रह्मवैवर्तके पुण्ये पुराणे प्रकृतखंडके |

अष्टाविंशतिकेऽध्याये यमाष्टकमुदीरितम् || ३४ ||

|| सावित्र्युवाच ||

तपसा धर्ममाराध्य पुष्करे भास्करः पुरा |

धर्मांशं यं सुतं प्राप धर्मराजं नमाम्यहम् || ३५ ||

समता सर्वभूतेलु यस्य सर्वस्य साक्षिणः |

अतो यन्नाम शमन|मिति तं प्रणमाम्यहम् || ३६ ||

येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् |

कर्मानुरूपकालेन तं कृतान्तं नमाम्यहम् || ३७ ||

विभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे |

नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् || ३८ ||

विश्वे यः कलयत्येव सर्वायुश्चापि सन्ततम् |

अतीवदुर्निवार्यं च तं कालं प्रणमाम्यहम् || ३९ ||

तपस्वी वैष्णवो धर्मी संयमी विजितेंद्रियः |

जीविनां कर्मफलदं तं यमं प्रणमाम्यहम् || ४० ||

स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् |

पापिनां क्लेशदो यश्च पुण्यं मित्रं नमाम्यहम् || ४१ ||

यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा |

यो ध्यायति परंब्रह्म ब्रह्मवंशं नमाम्यहम् || ४२ ||

इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने |

यमस्तां विष्णुभजनं कर्मपाकमुवाच ह || ४३ ||

इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् |

यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते || ४४ ||

महापापी यदि पठेत् नित्यं भक्त्या च नारद |

यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् || ४५ ||

Sunday, April 29, 2018

श्रीनृसिंहभुजङ्गप्रयातस्तवः

श्रीनृसिंहभुजङ्गप्रयातस्तवः

ऋतं कर्तुमेवाशु नम्रस्य वाक्यं
सभास्तम्भमध्याद्य आविर्बभूव ।
तमानम्रलोकेष्टदानप्रचण्डं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ १ ॥

इनान्तर्दृगन्तश्च गाङ्गेयदेहं
सदोपासते यं नराः शुद्धचित्ताः ।
तमस्ताघमेनोनिवृत्त्यै नितान्तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ २ ॥

शिवं शैववर्या हरिं वैष्णवाग्र्याः
पराशक्तिमाहुस्तथा शक्तिभक्ताः ।
यमेवाभिधाभिः परं तं विभिन्नं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ३ ॥

कृपासागरं क्लिष्टरक्षाधुरीणं
कृपाणं महापापवृक्षौघभेदे ।
नतालीष्टवाराशिराकाशशाङ्कं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ४ ॥

जगन्नेति नेतीति वाक्यैर्निषिद्ध्या-
वशिष्टं परब्रह्मरूपं महान्तः ।
स्वरूपेण विज्ञाय मुक्ता हि यं तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ५ ॥

नतान्भोगसक्तानपीहाशु भक्तिं
विरक्तिं च दत्वा दृढां मुक्तिकामान् ।
विधातुं करे कङ्कणं धारयन्तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ६ ॥

नरो यन्मनोर्जापतो भक्तिभावा-
च्छरीरेण तेनैव पश्यत्यमोघाम् ।
तनुं नारसिंहस्य वक्तीति वेदो
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ७ ॥

यदङ्घ्र्यब्जसेवापराणां नराणां
विरक्तिर्दृढा जायतेऽर्थेषु शीघ्रम् ।
तमङ्गप्रभाधूत पूर्णेन्दुकोटिं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ८ ॥

रथाङ्गं पिनाकं वरं चाभयं यो
विधत्ते कराब्जैः कृपावारिराशिः ।
तमिन्द्वच्छदेहं प्रसन्नास्यपद्मं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ९ ॥

रथाङ्गं पिनाकं वरं चाभयं च
प्रफुल्लाम्बुजाकारहस्तैर्दधानम् ।
फणीन्द्रातपत्रं शुचीनेन्दुनेत्रं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ १० ॥

विवेकं विरक्तिं शमादेश्च षट्कं
मुमुक्षां च सम्प्राप्य वेदान्तजालैः ।
यतन्ते विबोधाय यस्यानिशं तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ ११ ॥

सदा नन्दिनीतीरवासैकलोलं
मुदा भक्तलोकं दृशा पालयन्तम् ।
विदामग्रगण्या नताःस्युर्यदङ्घ्रौ
नमस्कुर्महे शैलवासं नृसिंहम् ॥ १२ ॥

यदीय स्वरूपं शिखा वेदराशे-
रजस्रं मुदा सम्यगुद्घोषयन्ति ।
नलिन्यास्तटे स्वैरसञ्चारशीलं
चिदानन्दरूपं तमीडे नृसिंहम् ॥ १३ ॥

यमाहुर्हि देहं हृषीकाणि केचित्
परेऽसूंस्तथा बुद्धिशून्ये तथान्ये ।
यदज्ञानमुग्धा जना नास्तिकाग्र्याः
सदानन्दरूपं तमीडे नृसिंहम् ॥ १४ ॥

सदानन्दचिद्रूपमाम्नायशीर्षै-
र्विचार्यार्यवक्त्राद्यतीन्द्रा यदीयम् ।
सुखेनासते चित्तकञ्जे दधानाः
सदानन्दचिद्रूपमीडे नृसिंहम् ॥ १५ ॥

पुरा स्तम्भमध्याद्य आविर्बभूव
स्वभक्तस्य कर्तुं वचस्तथ्यमाशु ।
तमानन्दकारुण्यपूर्णान्तरङ्गं
बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ १६ ॥

पुरा शङ्करार्या धराधीशभृत्यै-
र्विनिक्षिप्तवह्निप्रतप्तस्वदेहाः ।
स्तुवन्ति स्म यं दाहशान्त्यै जवात्तं
बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ १७ ॥

सदेमानि भक्त्याख्यसूत्रेण दृब्धा-
न्यमोघानि रत्नानि कण्ठे जना ये ।
धरिष्यन्ति तान्मुक्तिकान्ता वृणीते
सखीभिर्वृता शान्तिदान्त्यादिमाभिः ॥ १८ ॥

श्रीनृसिंहसप्तकम्

श्रीनृसिंहसप्तकम्

अद्वैतवास्तव्यमतेः प्रणमज्जनानां
सम्पादनाय धृतमानवसिंहरूपम् ।
प्रह्लादपोषणरतं प्रणतैकवश्यं
देवं मुदा कमपि नौमि कृपासमुद्रम् ॥ १ ॥

नतजनवचनऋतत्व-
प्रकाशकालस्य दैघ्र्यमसहिष्णुः ।
आविर्बभूव तरसा
यः स्तम्भान्नौमि तं महाविष्णुम् ॥ २ ॥

वक्षो विदारणं य-
श्चक्रे हार्दं तमो हन्तुम् ।
शत्रोरपि करुणाब्धिं
नरहरिवपुषं नमामि तं विष्णुम् ॥ ३ ॥

रिपुहृदयस्थितराजस-
गुणमेवासृङिमिषेण करजाग्रैः ।
धत्ते यस्तं वन्दे
प्रह्लादपूर्वभाग्यनिचयमहम् ॥ ४ ॥

प्रह्लादं प्रणमज्जन-
पङ्क्तेः कुर्वन्ति दिविषदो ह्यन्ये ।
प्रह्लादप्रह्लादं
चित्रं कुरुते नमामि यस्तमहम् ॥ ५ ॥

शरदिन्दुकुन्दधवलं
करजप्रविदारितासुराधीशम् ।
चरणाम्बुजरतवाक्यं
तरसैव ऋतं प्रकुर्वदहमीडे ॥ ६ ॥

मुखेन रौद्रो वपुषा च सौम्यः
सन्कञ्चनार्थं प्रकटीकरोषि ।
भयस्य कर्ता भयहृत्त्वमेवे-
त्याख्याप्रसिद्धिर्यदसंशयाभूत् ॥ ७ ॥