Monday, October 23, 2017

श्री भवानी अष्टकम्

न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥१॥

भवाब्धावपारे महादु:ख्भीरू पपात प्रकामी प्रलोभी प्रमत्त:।
कुसंसारपाशप्रबध्द: सदाहङ्गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ २ ॥

न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्र स्तोत्रम्न्त्रम् ।
न जानामि पुजांं न च न्यासयोगं गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ ३ ॥

न जानामि पुण्यं न जानामि तिर्थमं न जानामि मुक्तिं लयं वा कदाचित्।
न जानामि भक्तिं व्रतं वापि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानी॥४॥

कुकर्मी कुसड्गी कुबुध्दी: कुदास: कुलाचारहीन: कदाचारलीन: ।
कुदृष्टी: कुवाक्यप्रबन्ध: सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ ५ ॥

प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीधेश्वरं वा कदाचित् ।
न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ ६ ॥

विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये ।
अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ ७ ॥

अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीन: सदा जाङ्घवक्र: ।विपत्तौ प्रविष्ट: प्रनष्ट: सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ ८ ॥

॥इति श्रीमदादिशङ्कराचार्य विरचित भवान्यष्टकं समाप्तम् ॥

श्रीकण्ठाष्टकम्

॥ श्रीकण्ठाष्टकम् ॥

यः पादपपिहिततनुः
प्रकाशतां परशुरामेण ।
नीतः सोऽव्यात्सततं
श्रीकण्ठः पादनम्रकल्पतरुः ॥ १ ॥

यः कालं जितगर्वं
कृत्वा क्षणतो मृकण्डुमुनिसूनुम् ।
निर्भयमकरोत्सोऽव्यात्
श्रीकण्ठः पादनम्रकल्पतरुः ॥ २ ॥

कुष्ठापस्मारमुखा
रोगा यत्पादसेवनात्सहसा ।
प्रशमं प्रयान्ति सोऽव्यात्
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ३ ॥

यदविद्ययैव जगदिद-
मखिलं प्रतिभाति सत्यवत्पूर्वम् ।
ज्ञानात्सोऽव्यात्सततं
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ४ ॥

यमिबृन्दवन्द्यचरणः
कमिता धरणीधरेन्द्रतनयायाः ।
श्रीशादिवन्दितोऽव्यात्
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ५ ॥

यो दक्षिणास्यरूपं
धृत्वा विज्ञानदानकृतदीक्षः ।
मग्धेभ्योऽपि स पायात्
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ६ ॥

अन्धोऽपि यत्करुणया
चक्षुष्मान्भवति सत्वरं लोके ।
करुणानिधिः स पायात्
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ७ ॥

कपिलातटादृतगतिः
कपिलादिमुनीन्द्रवन्द्यपदपद्मः ।
श्रीदः पायात्सततं
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ८ ॥

श्रीकण्ठाष्टकमेत-
त्पठति जनो यः कृतादरः सततम् ।
श्रीविद्यासदनं स
प्रभवेन्नैवात्र सन्देहः ॥ ९ ॥

श्रीशिवस्तुतिकदम्बम्

॥ श्रीशिवस्तुतिकदम्बम् ॥

आह्लादजनकस्याद्य सान्निध्यात्तव शङ्कर
चन्द्रश्चन्द्रत्वमापेदे जाने चन्द्रलसज्जट ॥ १ ॥

कालकूटं निगृह्यादावरक्षः सकलं जगत् ।
को वात्र विस्मयः शम्भो कालस्यैकस्य निग्रहे ॥ २ ॥

अभवस्त्वं सूचयितुं लोकानामर्धनारीशः ।
अर्धो वेत्याम्नायः स्वार्थपरो नार्थवाद इति ॥ ३ ॥

जडताविदलनदीक्षित जडतापहृतिं करोषि नो चेन्मे ।
दीक्षाभङ्गो न भवेद्दाक्षायण्याश्रिताङ्ग किमु तेन ॥ ४ ॥

पशुपतिमव मां शम्भो पशुपतिरसि गिरिश यस्मात्त्वम् ।
श्रुतिरप्येवं ब्रूते कर्तव्या ह्यात्मरक्षेति ॥ ५ ॥

शीर्षोपरि चन्द्रस्ते लोके शास्त्रे च विख्यातः ।
कण्ठोपर्यकलङ्कः पूर्णः कोऽयं निशाकरो ब्रूहि ॥ ६ ॥

कवित्ववाराशिशरन्निशेशं
जडत्वनाग्रेन्दविभेदसिंहम् ।
मृगत्वगाबद्धकटिप्रदेशं
महत्वदं नौमि नताय शम्भुम् ॥ ७ ॥

यदङ्घ्रिपाथोरुहसेवनेन
प्रयाति सर्वोत्तमतां जडोऽपि ।
तमम्बिकामानसपद्महंस-
मुपाश्रये सत्वरचित्तशुद्ध्यै ॥ ८ ॥

बहूनां जनानां मनोऽभीष्टजातं
सुसूक्ष्मं वितीर्याशु गर्वायसे त्वम् ।
महेशान यद्यस्ति शक्तिस्तवाहो
महन्मन्मनोऽभीष्टमाशु प्रयच्छ ॥ ९ ॥

अपां पुष्पार्धस्य प्रतिदिनमहो धारणवशात्
प्रभो किं निर्वेदाद्धरणिगतपुष्पालिमधुना ।
रसाद्धत्से शीर्षे शशधरकिरीटागतनया-
सहाय प्रब्रूहि प्रणतजनकारुण्यभरित ॥ १० ॥

बहोः कालात्किं शिरसि कृतवासं तव विधुं
वियोगं किं पत्युर्भृशमसहमानाः स्वयमहो ।
समालिङ्गन्त्येताः पतिमतिरसात्पुष्पमिषतः
प्रभो तारास्तस्मादसि सुमकिरीटस्त्वमधुना ॥ ११ ॥

भक्तानां हृद्रथानां निजनिजपदवीप्राप्तये पार्वतीशः
कारुण्यापारवारान्निधिरगपतिजासंयुतः सम्भ्रमेण ।
आरुह्यैकं हि बाह्यं रथमिह निखिलांश्चालयन्किं पुरोक्तान्
गर्वं पक्षीशवाय्वोर्हरति करुणया शीघ्रनम्रेष्टदायी ॥ १२ ॥

मत्पापानां बहूनां परिमितिरधुनाधीश नास्त्येव नूनं
त्वद्वत्पापोपशान्तिप्रदमिह भुवने नास्ति दैवं च सद्यः ।
तस्मान्मत्पापराशिं दह दह तरसा देहि शुद्धां च बुद्धिं
स्रोतः श्रेष्ठावतंस प्रणतभयहर प्राणनाथागजायाः ॥ १३ ॥

कामं सन्तु सुराः स्वपादनमनस्तोत्रार्चनाभिश्चिरं
देहं कर्शयते जनाय फलदास्तान्नाश्रये जात्वपि ।
यो जात्वप्यवशात्स्वनाम वदते लोकाय शीघ्रेष्टदः
सोऽव्याद्धेतुविहीनपूर्णकरुणः कान्तायितार्धः शिवः ॥ १४ ॥

नित्यानित्यविवेकभोगविरती शान्त्यादिषट्कं तथा
मोक्षेच्छामनपायिनीं वितर भो शम्भो कृपावारिधे ।
वेदान्तश्रवणं तदर्थमननं ध्यानं चिरं ब्रह्मणः
सच्चिद्रूपतनोरखण्डपरमानन्दात्मनः शङ्कर ॥ १५ ॥

मन्नीकाशतनुं प्रगृह्य करुणावारांनिधे सत्वरं
शृङ्गाद्रौ वस मोदतः करुणया व्याख्यानसिंहासने ।
कुर्वंल्लोकततिं स्वधर्मनिरतां सौख्यैरशेषैर्वृता-
मद्वैतात्मविबोधपूर्णहृदयां चातन्वपर्णापते ॥ १६ ॥

यत्पादाम्बुजसमर्चनसक्ताः
सक्तिमाशु विषयेषु विहाय ।
सच्चिदात्मनि विलीनमनस्काः
सम्भवन्ति तमहं शिवमीडे ॥ १७ ॥

रजनीवल्लभचूडो
रजनीचरसेव्यपदपद्मः ।
राकाशशाङ्कधवलो
राजति रमणीगृहीतवामाङ्गः ॥ १८ ॥

करवाणीतनुभिस्ते
करवाणीशाङ्घ्रिसन्नतिं मोदात् ।
करवाणीतनुशुद्ध्यै
करवाणीश्रीबहुत्वाय ॥ १९ ॥

Monday, October 9, 2017

श्रीगणपतिस्तोत्रम्

*।। श्रीगणपतिस्तोत्रम्।।*

द्विरदानन विघ्नकाननज्वलन त्वं प्रथमेशनंदन।

मदनपतिमाखुवाहन ज्वलनाभासितपिंगलोचन।।१।।

अहिबंधन रक्तचंदन प्रियदूर्वाङ्कुरभारपूजन।।

शशिभूषण भक्तपालन ज्वलनाक्षाsव निजान्निजावन।।२।।

विविधामरमर्त्यनायकः प्रथितस्त्वं भुवने विनायकः।।

तव कोपेपि हि नैव नायकस्तत एव त्वमजो विनायक।।३।।

बलिनिग्रह ईश केशवस्त्रिपुराख्यासुरनिग्रहे शिवः।।

जगदुद्भववनेsब्जसंभवः सकलान्जेतुमहो मनोभवः।।४।।

महिषासुरनिग्रहे शिवा भवमुक्त्यै मुनयो धुताशिवाः।।

यमपूजयदिष्टसिद्धये वरदो मे भव चेष्टसिद्धये।।५।।

गजकर्णक मूषकस्थिते वरदे त्वय्यभये हृदि स्थिते।।

जयलाभरमेष्टसंपदाः खलु सर्वत्र कुतो वदापदाः।।६।।

संकल्पितं कार्यमविघ्नमीश द्राक्सिद्धिमायातु ममाखिलेश।।

पापत्रयं मे हर सन्मतीश तापत्रयं मे हर शांत्यधीश।।७।।

गणाधीशो धीशो हरिहरविधीशोsभयकरो

गुणाधीशो धीशो विजयत उमाहृत्सुखकरः।

बुधाधीशो नीशो निजभजकविघ्नौघहरकः

मुदाधीशो पीशो यशस उभयर्धेश्च शरणम्।।८।।

*।। इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं गणपतिस्तोत्रं संपूर्णम् ।।*

वाल्मीकिरामायणे रावणवधवर्णनम्

वाल्मीकिरामायणे रावणवधवर्णनम्-

अथ संस्मारयामास राघवं मातलिस्तदा ।
अजानन्निव किं वीर त्वमेनमनुवर्तसे ।।

विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।
विनाशकालः कथितो यः सुरैः सो ऽद्य वर्तत ।।

ततः संस्मारितो रामस्तेन वाक्येन मातलेः ।
जग्राह सशरं दीप्तं निश्वसन्तमिवोरगम्  ।।

यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ।
ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ।।

ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ।
दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ।।

यस्य वाजेषु पवनः फले पावकभास्करौ ।
शरीरमाकाशमयं गौरवे मेरुमन्दरौ ।।

जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् ।
तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ।।

सधूममिव कालाग्निं दीप्तमाशीविषं यथा ।
परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ।।

द्वाराणां परिघाणां च गिरीणामपि भेदनम् ।
नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ।।

वज्रसारं महानादं नानासमितिदारणम् ।
सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ।।

कङ्कगृध्रवलानां च गोमायुगणरक्षसाम् ।
नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम् ।।

नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ।
वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ।।

तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ।
द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ।।

अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः ।
वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली ।।

तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे ।
सर्वभूतानि वित्रेसुश्चचाल च वसुन्धरा ।।

स रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम् ।
चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ।।

स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः ।
कृतान्त इव चावार्यो न्यपतद्रावणोरसि ।।

स विसृष्टो महावेगः शरीरान्तकरः शरः ।
बिभेद हृदयं तस्य रावणस्य दुरात्मनः ।।

रुधिराक्तः स वेगेन जीवितान्तकरः शरः ।
रावणस्य हरन् प्राणान् विवेश धरणीतलम् ।।

स शरो रावणं हत्वा रुधिरार्दीकृतच्छविः ।
कृतकर्मा निभृतवत् स्वतूणीं पुनरागमत् ।।

तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम् ।
निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ।।

गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः ।
पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ।।

तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ।
हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः ।।

नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः ।।

दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ।
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात् ।
गताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः ।।

ततो विनेदुः संहृष्टा वानरा जितकाशिनः ।
वदन्तो राघवजयं रावणस्य च तद्वधम् ।।

अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः ।
दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ ।।

निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ।
किरन्ती राघवरथं दुरवापा मनोरमा ।।

राघवस्तवसंयुक्ता गगने ऽपि च शुश्रुवे ।
साधु साध्विति वागग्र्या दैवतानां महात्मनाम् ।।

आविवेश महाहर्षो देवानां चारणैः सह ।
रावणे निहते रौद्रे सर्वलोकभयङ्करे ।।

ततः सकामं सुग्रीवमङ्गदं च महाबलम् ।
चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् ।।

ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभो ऽबवत् ।
मही चकम्पे न हि मारुतो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः ।।

ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा ।
समेत्य हृष्टा विजयेन राघवं रणे ऽभिरामं विधिना ह्यपूजयन् ।।

स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज ।
रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः ।। 

एकात्मा स्त्रोतम

🚩🚩एकात्मा स्त्रोतम🚩🚩


ॐ सच्चिदानंदरूपाय नमोस्तु परमात्मने
ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये || १ ||

प्रकृतिः पंचभूतानि ग्रहा लोकाः स्वरास्तथा
दिशः कालश्च सर्वेषां सदा कुर्वन्तु मंगलम्।। २।।

रत्नाकराधौतपदां हिमालयकिरीटिनीम्
ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारत मातरम् || 3 ||

महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः
ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा || ४ ||

गंगा सरस्वती सिन्धुर्ब्रह्मपुत्रश्च गण्डकी
कावेरी यमुना रेवा कृष्णा गोदा महानदी || ५ ||

अयोध्या मथुरा माया काशी कांची अवन्तिका
वैशाली द्वारिका ध्येया पुरी तक्षशिला गया || ६ ||

प्रयागः पाटलिपुत्रं विजयानगरं महत्
इन्द्रप्रस्थं सोमनाथः तथाअमृतसरः प्रियम् || ७ ||

चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा
रामायणं भारतं च गीता सद्दर्शनानि च ॥८॥

जैनागमास्त्रिपिटकाः गुरुग्रन्थः सतां गिरः
एषः ज्ञाननिधिः श्रेष्ठः श्रद्धेयो हृदि सर्वदा ॥९॥

अरुन्धत्यनसूया च सावित्री जानकी सती
द्रौपदी कणणगी गार्गी मीरा दुर्गावती तथा ॥१०॥

लक्ष्मीरहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमा
निवेदिता सारदा च प्रणम्या मातृदेवताः ॥११॥

श्रीरामो भरतः कृष्णो भीष्मो धर्मस्तथार्जुनः
मार्कंडेयो हरिश्चन्द्र प्रह्लादो नारदो ध्रुवः ॥१२॥

हनुमान्‌जनको व्यासो वसिष्ठश्च शुको बलिः
दधीचि विश्वकर्माणौ पृथु वाल्मीकि भार्गवाः ॥१३॥

भगीरथश्चैकलव्यो मनुर्धन्वन्तरिस्तथा
शिबिश्च रन्तिदेवश्च पुराणोद् गीतकीर्तय ॥१४॥

बुद्धा जिनेन्द्रा गोरक्षः पाणिनिश्च पतंजलिः
शंकरो मध्व निंबार्कौ श्री रामानुजवल्लभौ ॥१५॥

झूलेलालोथ चैतन्यः तिरुवल्लुवरस्तथा
नायन्मारालवाराश्च कंबश्च बसवेश्वरः ॥१६॥

देवलो रविदासश्च कबीरो गुरुनानकः
नरसिस्तुलसीदासो दशमेषो दृढव्रतः ॥१७॥

श्रीमत् शङ्करदेवश्च बंधू सायण माधवौ
ज्ञानेश्वरस्तुकारामो रामदासः पुरन्दरः ॥१८॥

बिरसा सहजानन्दो रामानन्दस्तथा महान्‌
वितरन्तु सदैवैते दैवीं सद्ड्गुणसंपदम्‌ ॥१९॥

भरतर्षिः कालिदासः श्रीभोजो जकणस्तथा
सूरदासस्त्यागराजो रसखानश्च सत्कविः ॥२०॥

रविवर्मा भातखंडे भाग्यचन्द्रः स भूपतिः
कलावंतश्च विख्याताः स्मरणीया निरंतरम्‌॥२१॥

अगस्त्यः कंबु कौन्डिण्यौ राजेन्द्रश्चोल वंशजः
अशोकः पुश्य मित्रश्च खारवेलः सुनीतिमान्‌ ॥२२॥

चाणक्य चन्द्रगुप्तौ च विक्रमः शालिवाहनः
समुद्रगुप्तः श्रीहर्षः शैलेंद्रो बप्परावलः ॥२३॥

लाचिद्भास्कर वर्मा च यशोधर्मा च हूणजित्‌
श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥२४॥

मुसुनूरिनायकौ तौ प्रतापः शिवभूपतिः
रणजितसिंह इत्येते वीरा विख्यातविक्रमाः ॥२५॥

वैज्ञानिकाश्च कपिलः कणादः सुश्रुतस्तथा
चरको भास्कराचार्यो वराहमिहिरः सुधीः ॥२६॥

नागार्जुनो भरद्वाजः आर्यभट्टो वसुर्बुधः
ध्येयो वेंकटरामश्च विज्ञा रामानुजादयः ॥२७॥

रामकृष्णो दयानंदो रवींद्रो राममोहनः
रामतीर्थोऽरविंदश्च विवेकानंद उद्यशाः ॥२८॥

दादाभाई गोपबंधुः टिलको गांधीरादृताः
रमणो मालवीयश्च श्री सुब्रमण्यभारती ॥२९॥

सुभाषः प्रणवानंदः क्रांतिवीरो विनायकः
ठक्करो भीमरावश्च फुले नारायणो गुरुः ॥३०॥

संघशक्तिप्रणेतारौ केशवो माधवस्तथा
स्मरणीयाः सदैवैते नवचैतन्यदायकाः ॥३१॥

अनुक्ता ये भक्ताः प्रभुचरण संसक्तहृदयाः
अनिर्दिष्टाः वीराः अधिसमरमुद्ध्वस्तरिपवः
समाजोद्धर्तारः सुहितकर विज्ञान निपुणाः
नमस्तेभ्यो भूयात् सकलसुजनेभ्यः प्रतिदिनम्‌ ॥ ३२॥

इदमेकात्मतास्तोत्रं श्रद्धया यः सदा पठेत्‌
स राष्ट्रधर्मनिष्ठावान् अखंडं भारतं स्मरेत्‌ ॥३३॥

|| भारत माता की जय ||