Monday, October 23, 2017

श्रीकण्ठाष्टकम्

॥ श्रीकण्ठाष्टकम् ॥

यः पादपपिहिततनुः
प्रकाशतां परशुरामेण ।
नीतः सोऽव्यात्सततं
श्रीकण्ठः पादनम्रकल्पतरुः ॥ १ ॥

यः कालं जितगर्वं
कृत्वा क्षणतो मृकण्डुमुनिसूनुम् ।
निर्भयमकरोत्सोऽव्यात्
श्रीकण्ठः पादनम्रकल्पतरुः ॥ २ ॥

कुष्ठापस्मारमुखा
रोगा यत्पादसेवनात्सहसा ।
प्रशमं प्रयान्ति सोऽव्यात्
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ३ ॥

यदविद्ययैव जगदिद-
मखिलं प्रतिभाति सत्यवत्पूर्वम् ।
ज्ञानात्सोऽव्यात्सततं
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ४ ॥

यमिबृन्दवन्द्यचरणः
कमिता धरणीधरेन्द्रतनयायाः ।
श्रीशादिवन्दितोऽव्यात्
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ५ ॥

यो दक्षिणास्यरूपं
धृत्वा विज्ञानदानकृतदीक्षः ।
मग्धेभ्योऽपि स पायात्
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ६ ॥

अन्धोऽपि यत्करुणया
चक्षुष्मान्भवति सत्वरं लोके ।
करुणानिधिः स पायात्
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ७ ॥

कपिलातटादृतगतिः
कपिलादिमुनीन्द्रवन्द्यपदपद्मः ।
श्रीदः पायात्सततं
श्रीकण्ठः पादनम्रकल्पतरुः ॥ ८ ॥

श्रीकण्ठाष्टकमेत-
त्पठति जनो यः कृतादरः सततम् ।
श्रीविद्यासदनं स
प्रभवेन्नैवात्र सन्देहः ॥ ९ ॥

No comments: