Friday, March 9, 2018

श्रीरामोदन्तम् बालकाण्ड: १-१२

श्रीकान्तो मातुलो यस्य​ जननी सर्वमंगला।
जनकः शंकरो देवः तम् वन्दे कुंजराननम्॥


यो दण्डकारण्यनिशाचरेन्द्रान्

कोदण्डलीलाविषयीचकार ।
वेतण्डशुण्डायितबाहुदण्ड: कोदण्डप‍ाणि: कुलदैवतं न: ॥

अद्यत: श्रीरामोदन्तम् (श्रीराम चरितम्) श्लोकानाम् अनवयम् प्रतिदिनं प्रषयिष्यामि ।

~ ✍ शरवण:



श्रीरामोदन्तम्
अथ बालकाण्ड:



मूल श्लोक:श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसम् ।
श्रीरामोदन्तमाख्यास्ये श्री वाल्मीकि प्रकीर्तितम् ॥१॥

पदविभाग:

श्रीपतिं प्रणिपत्य अहं श्रीवत्साङ्कितवक्षसम्
श्रीरामोदन्तम् आख्यास्ये श्री वाल्मीकि प्रकीर्तितम्

अन्वय:
अहं श्रीवत्स अङ्कित वक्षसम्    श्रीपतिं प्रणिपत्य श्री वाल्मीकि प्रकीर्तितम् श्रीरामोदन्तम् आख्यास्ये ।

तात्पर्यम्

अहं श्रीवत्स अङ्कित वक्षसम् श्रीपतिं विष्णुं नमस्कृत्य श्री वाल्मीकिना पूर्वं उक्तं श्रीरामोदन्तं नाम कथां वदिष्यामि ।

व्याकरणम्
♦सन्धि:
श्रीवत्स + अङ्कित - सवर्णदीर्घसन्धि:
♦समास:
श्रीपति - श्रिय: पति : षष्ठीतत्पुरुष:
आख्यास्ये - लृट् लकार: उपु. एक
आत्मनेपदि धातु:
आख्यास्ये - आख्यास्यावहे - आख्यास्यामहे



मूल श्लोक:
पुरा विश्रवस: पुत्रो रावणो नाम राक्षस: ।
आसीदस्यानुजौ चास्तां कुम्भकर्णविभिषणौ ॥२॥

पदविभाग:

पुरा विश्रवस: पुत्र: रावण: नाम राक्षस: आसीत् अस्य अनुजौ च आस्तां कुम्भकर्ण: विभिषण:

अन्वय:
पुरा विश्रवस: पुत्र: रावण: नाम राक्षस: आसीत् तस्य  कुम्भकर्ण: विभिषण: (नाम) अनुजौ च आस्ताम् ।

तात्पर्यम्
पूर्वं विश्रवस: नाम मुनि: आसीत् । स: पुलसत्यस्य पुत्र: ।
विश्रवस: मुनये कलत्रद्वयमासीत् । ते नाम कैकसी इडाविडा । रावण: कुम्भकर्ण: विभिषण:  च कैकेसीया:  पुत्रा: । सूर्पनखा तेषाम् सहोदरी । कुबेर: इडाविडाया: पुत्र: आसीत् ।

व्याकरणम्
♦सन्धि:
पुत्र: + रावण: विसर्ग उकार:
रावण: + नाम -
विसर्ग उकार:
च + आस्ताम् - सवर्णदीर्घसन्धि:



मूल श्लोक:
ते तु तीव्रण तपसा प्रत्यक्षीकृत्य वेधसम् ।
वव्रिरे च वरानिष्टान् अस्मादाश्रितवध्सलात् ॥३॥

पदविभाग:
ते तु तीव्रण तपसा प्रत्यक्षीकृत्य वेधसम् वव्रिरे च वरान् इष्टान् अस्मात् ‌आश्रितवध्सलात् ।

अन्वय:
ते तीव्रण तपसा प्रत्यक्षीकृत्य अस्मात् आश्रितवध्सलात् वेधसम् इष्टान्  वरान् च वव्रिरे ।

तात्पर्यम्
रावण: तस्य अनुजौ सह तपस् आश्रितवान् । अत: तेषां मधये ब्रह्मा प्रत्यक्षीकृतवान् । तत: ते इष्टान् वरान् वव्रिरे ।

व्याकरणम्
♦सन्धि:
अस्मात् +  आश्रितवध्सलात् - जश्त्वसन्धि:
♦वव्रिरे - वृ धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
वव्रे - वव्राते - वव्रिरे
प्रत्यक्षीकृत्य - प्रति + अक्षि: + कृत्य



मूल श्लोक:
रावणो मानुषादन्यै: अवध्यत्वं तथाsनुज: ।
निर्देवत्वेच्छया निद्रां कुम्भकर्णोsवृणीत च ॥૪॥

पदविभाग:
रावण: मानुषादन्यै: अवध्यत्वं अवृणीत तथा अनुज: च
निर्देवत्व इच्छया निद्रां कुम्भकर्ण:

अन्वय:
रावण: मानुषादन्यै: अवध्यत्वं अवृणीत तथा अनुज: कुम्भकर्ण: च
निर्देवत्व इच्छया निद्रां  (अवृणीत)।

तात्पर्यम्
रावण: मानुषादन्यै: अवध्यत्वं वरं प्रापतवान् । तस्य सहोदर: कुम्भकर्ण:
निर्देवत्व भावं इच्छया स: निद्रावत्वं वरं प्राप्तवान् । अत: स: सर्वदा निद्रां कृतव‍ान् ।

व्याकरणम्
♦सन्धि:
रावण: + मानुषादन्यै: - विसर्ग उकार:
कुम्भकर्ण: + अवृणीत - विसर्ग उकार:
अवध्यत्वं - अवध्यस्य भाव:
निष्क्रान्त: देवेभ्य: - निर्देव: - निर्देवस्य भाव: निर्देवत्वम्
अवृणीत - अात्मनेपदि वृ धातु लङ् लकार प्रथमपुरुष: एकवचनम्
अवृणीत-अवृणाताम्-अवृणत



मूल श्लोक:
विभीषणो विष्णुभक्तिं वव्रे सत्वगुणान्वित: ।
तेभ्य एतान् वरान् दत्वा तत्रैवान्तर्दधे प्रभु: ॥५॥

पदविभाग:
विभीषण: विष्णुभक्तिं वव्रे सत्वगुणान्वित: तेभ्य: एतान् वरान् दत्वा तत्रैव अन्तर्दधे प्रभु:

अन्वय:
सत्वगुणान्वित: विभीषण: विष्णुभक्तिं वव्रे । तेभ्य: एतान् वरान् दत्वा प्रभु: तत्रैव अन्तर्दधे ।

तात्पर्यम्
रावणस्य सहोदर: विभीषण: स: सत्वगुण सम्पन्न: आसीत् । स: विष्णुभक्तिं प्रार्थीतवान् । तेभ्य: (रावण: कुम्भकर्ण: विभीषण: )एतान् वरान् दत्वा ब्रह्मा तत्रैव अन्तर्दधे ।

व्याकरणम्
♦सन्धि:
विभीषण: + विष्णुभक्तिं - विसर्ग उकार:
अन्तर्दधे - अन्त: + दधे - विसर्गरेफ:
तेभ्य: + एतान् - विसर्गलोप:
♦समास:
सत्वगुणै: अन्वित: - तृतीयातत्पुरुष:
दधे - धा आत्मनेपदि धातु:
लिट् लकार: प्रथमपुरुष:
दधे-दधाते- दधिरे
वव्रिरे - वृ धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
वव्रे - वव्राते - वव्रिरे




मूल श्लोक:
रावणस्तु ततो गत्वा रणे जित्वा धनाधिपम् ।
लङ्कापुरीं पुष्पकं च हत्वा तत्रावसत् सुखम् ॥६॥

पदविभाग:
रावण: तु तत:  गत्वा रणे जित्वा धनाधिपम्
लङ्कापुरीं पुष्पकं च हत्वा तत्र अवसत् सुखम्

अन्वय:
तत: रावण: लङ्कापुरीं गत्वा धनाधिपम्  रणे जित्वा  पुष्पकं च हत्वा तत्र सुखम् अवसत्  ।

तात्पर्यम्
रावण: वरं प्राप्तवान् । तदनन्दरं स: लङ्क‍ापुरीं गतवान् । तत्र स: धनाधिपतिं जित्व‍ा पुष्पकविमानं च हत्वा तत्रैव सुखम् अवसत् ।

व्याकरणम्
♦सन्धि:
रावण: + तु - विसर्ग सकार:
तत: + गत्वा - विसर्ग उकार:
तत्र + अवसत् - सवर्णदीर्घसन्धि:
♦समास:
धनाधिपम् - धनस्य अधिपति: - तम् षष्ठितत्पुरुष:



मूल श्लोक:
यातुधानास्तत: सर्वे रसातलनिवासिन: ।
दशाननं समाश्रित्य लङ्कां च सुखमावसन् ॥७॥

पदविभाग:
यातुधाना: तत: सर्वे रसातल निवासिन:

दशाननं समाश्रित्य लङ्कां च सुखम् आवसन्

अन्वय:
यातुधाना: सर्वे रसातलनिवासिन: । तत: (ते) दशाननं समाश्रित्य लङ्कां च सुखम् आवसन् ।

तात्पर्यम्
राक्षसा: पाताललोके अवसन् । यदा रावण: कुबेरं जित्वा लङ्काम् अवसत् तदा ते रावणं समाश्रित्य लङ्का नगरे सुखम् अावसन् ।


व्याकरणम्
♦सन्धि:
यातुधाना: + तत: -विसर्ग सकार:
आ+अवसन् - सवर्णदीर्घसन्धि:
♦समास:
दशानन: - दश आननानि यस्य स: - व्यधिकरणबहुव्रीहि:



मूल श्लोक:
मन्दोदरीं मयसुतां परिणीय दशानन: ।
तस्यासुत्पादयामास मेघनादाह्वयं सुतम् ॥८॥

पदविभाग:
मन्दोदरीं मयसुतां परिणीय दशानन:
तस्या: उत्पादयामास मेघनाद आह्वयं सुतम्

अन्वय:
दशानन: मयसुतां मन्दोदरीं परिणीय तस्या: मेघनाद आह्वयं सुतम् उत्पादयामास ।

तात्पर्यम्
मय नाम एक: राक्षस: आसीत् । स: असुराणां नायक: । तस्य पुत्री मन्दोदरी । दशानन: रावण: ताम् विवाहं कृतवान् । पश्चात् मेघनाद नाम सुतं उत्पादयामास ।


व्याकरणम्
♦सन्धि:
तस्या: + उत्पादयामास - विसर्ग सकार:
मेघनाद + आह्वयम् - सवर्णदीर्घसन्धि:
♦समास:
मन्दोदरी - मन्दम् उदरं यस्या: सा - मन्दोदरी - समानाधिकरण बहुव्रीहि:
मेघस्य नाद इव नाद: यस्य स: - मेघनाद: - बहुव्रीहि:
परिणीय - परि +नीत्वा।



मूल श्लोक:
रसां रसतलं चैव विजित्य स तु रावण:।
लोकानाक्रमयन् सर्वान् जहार च विलासिनी: ॥९॥

पदविभाग:
रसां रसतलं च एव विजित्य स: तु रावण:
लोकान् आक्रमयन् सर्वान् जहार च विलासिनी:

अन्वय:
स: रावण: रसां रसतलं च एव विजित्य सर्वान् लोकान् आक्रमयन् विलासिनी: च जहार ।

तात्पर्यम्
लङ्गा नृप: रावण: रसां पातालं च जीतवान् । पश्चात् स: सर्वान् लोकान् आक्रमयन् महिला: च अपहरितवान् ।

व्याकरणम्
♦सन्धि:
च + एव - वृद्धिसन्धि:
स: + तु - विसर्गलोप:
विजित्य - वि + जि + ल्यप्
जहार - हृ धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
जहार - जह्रतु: जह्रु:।




मूल श्लोक:
दूषयन् वैदिकं कर्म द्विजानर्दयति स्म स:।
आत्मजेन ततो युद्धे वासवं चाप्यपीडयेत् ॥ १०॥


पदविभाग:
दूषयन् वैदिकं कर्म द्विजान् अर्दयति स्म स:
आत्मजेन तत: युद्धे वासवं च अपि अपीडयत्

अन्वय:
स: वैदिकं कर्म दूषयन् द्विजान् अर्दयति स्म । तत: (तस्य) आत्मजेन युद्धे वासवं च अपि अपीडयत् ।

तात्पर्यम्
रावण: वैदिककर्मं दूषितवान् । द्विजान् अर्दयति स्म । पश्चात् तस्य पुत्रेण युद्धे इन्द्रम् अपि अपीडयत् ।

व्याकरणम्
♦सन्धि:
तत: + युद्धे - विसर्ग उकार:
च + अपि - सवर्णदीर्घसन्धि:
अपि + अपीडयत् - यण्सन्धि:
♦समास:
द्वि: जायन्ते इति द्विजा: बहुव्रीहि: ।



मूल श्लोक:
तदीयतरुरत्नानि पुनरानाय्य किङ्करै: ।
स्थापयित्वा तु लङ्कायाम् अवसच्च चिराय स: ॥११॥


पदविभाग:
तदीय तरुरत्नानि पुन: आनाय्य किङ्करै:
स्थापयित्वा तु लङ्कायाम् अवसत् च चिराय स:

अन्वय:
तदीय किङ्करै: तरुरत्नानि पुन: आनाय्य: स्थापयित्वा च तु स: लङ्कायाम् चिराय अवसत् ।

तात्पर्यम्
रावण: तस्य किङ्करै: कल्पकवृक्ष: पुन: आनाय्य स्थापितवान् । अत: स: लङ्कायां बहुकालम् अवसत् ।

व्याकरणम्
♦सन्धि:
पुन: + आनाय्य - विसर्ग रेफ:
अवसत् + च - श्चुत्वसन्धि:



*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*ततस्तस्मिन्नवसरे विधातारं दिवौकस: ।*
*उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥१२॥*


*पदविभाग:*

तत: तस्मिन् अवसरे विधातारं दिवौकस: 
उपगम्य उचिरे सर्वं रावणस्य विचेष्टितम् 

*अन्वय:*

तत: तस्मिन् अवसरे विधातारं दिवौकस: 
उपगम्य  रावणस्य विचेष्टितम् सर्वं  उचिरे ।

*तात्पर्यम्*
पश्चात् तस्मिन समये देवा: ब्रह्मा समीपे गत्वा  रावणस्य विचेष्टितम् सर्वं उक्तवन्त: ।

*व्याकरणम्*
♦सन्धि:

तत: + तस्मिन् - विसर्ग सकार:
तस्मिन् + अवसरे - ङमुडागमन सन्धि:
उपगम्य + उचिरे - गुणसन्धि:
 
♦समास:
दिवौकस: - द्यो: ओक: येषाम् ते बहुव्रीहि:

ऊचिरे - *ब्रू* आत्मनेपदि धातु: लिट् लकार: प्रथमपुरुष:
_ऊचे-ऊचाते-ऊचिरे_

🏹🏹🏹🏹🏹🏹

~ ✍ *शरवण:*

1 comment:

latha vidyaranya said...

नमस्ते। अत्र एकः विद्यासागरः एव वर्तते! रामोदन्तविषयमन्विष्यमाणा मया एतत् निधिः प्राप्ता। विस्तरेण लिखितं विवरणं दृष्ट्वा भृशं आनन्दितवती। सुन्दरकाण्डं पठितुमिच्छुका अस्मि। धन्यवादाः भवते।
मम प्रश्नद्वयमस्ति - रामोदन्तस्य रचयिता कः? तस्य कालस्य विषये किमपि ज्ञानं लभ्यते वा?