Sunday, March 18, 2018

श्रीरामोदन्त: बालकाण्डः १३-१८

*श्रीरामोदन्त:*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*तदाकर्ण्य सुरै: साकं प्राप्य दुग्धोदधेस्तटम् ।*
*तुष्टाव च हृषीकेशं विधाता विविधै: स्तवै: ॥१३॥*

*पदविभाग:*

तदा आकर्ण्य सुरै: साकं प्राप्य दुग्धोदधे: तटम् तुष्टाव च हृषीकेशं विधाता विविधै: स्तवै:

*अन्वय:*

तदा आकर्ण्य विधाता
सुरै: साकं  दुग्धोदधे: तटम्
प्राप्य च हृषीकेशं  विविधै: स्तवै: तुष्टाव ।

*तात्पर्यम्*
यदा देवा: विधातारम् उक्तवन्त: तदा स: तत् श्रृत्वा सुरै: सह दुग्धोदधे: तटम् प्राप्य श्रीमहाविष्णुम् नानाविध स्तवै: सन्तुष्टवान् ।

*व्याकरणम्*
♦सन्धि:
तदा + आकर्ण्य - सवर्णदीर्घसन्धि:
दुग्धिदधे: + तटम् - विसर्ग सकार:

हृषीकेश: - हृषीकानाम् ईश: षष्ठीतत्पुरुष:

तुष्टाव - स्तु धातु: परस्मैपदि धातु: लिट् लकार: प्रथमपुरुष:
तुष्टाव-तुष्टुवतु:-तुष्टुवु:

*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*आविर्भूयाथ दैत्यारि: पप्रच्छ च पितामहम् ।*
*किमर्थमागतोसि त्वं*
*साकं देवगणैरिति ॥ १૪॥*

*पदविभाग:*

आविर्भूय अथ दैत्यारि: पप्रच्छ च पितामहम्
किमर्थम् ‍अ‍ागत: आसि त्वं
साकं देवगणै: इति

*अन्वय:*

अथ आविर्भूय  दैत्यारि:
पितामहम् किमर्थम् त्वं देवगणै: साकं च अ‍ागत: आसि इति पप्रच्छ ।

*तात्पर्यम्*

ब्रह्मा देवगणै: सह महाविष्णुम् मेलितुम् गतवान् । अत्र महाविष्णु:  तेषां मध्ये आविर्भूय *"पितामह ! त्वं किमर्थम् देवगणै: सह अत्र अगत:"* इति पृष्टवान् ।

*व्याकरणम्*
♦सन्धि:
आविर्भूय + अथ - सवर्णदीर्घसन्धि:
अगत: + असि - विसर्ग उकार: पूर्वरूपसन्धि:
देवगणै: + इति - विसर्ग रेफ:

♦समास:
दैत्यारि: - दैत्यानाम् अरि: -   षष्ठीतत्पुरुष:

*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*ततो दशाननात् पीडाम् अजस्तस्मै न्यवेदयत् ।*
*तच्छ्रुत्वोवाच धातारं हर्षयन् विष्टरश्रवा: ॥१५॥*

*पदविभाग:*

तत: दशाननात् पीडाम् अज: तस्मै न्यवेदयत्
तत् श्रृत्वा उवाच धातारं हर्षयन् विष्टरश्रवा:

*अन्वय:*

तत: अज: दशाननात् पीडाम्  तस्मै न्यवेदयत् ।
तत् श्रृत्वा विष्टरश्रवा: हर्षयन् धातारं  उवाच ।

*तात्पर्यम्*
पश्चात् ब्रह्मा रावणात् पीडाम् अवदत् । तत् श्रृत्वा श्रीविष्णु:  हर्षयन् धातारम् अवदत् ।

*व्याकरणम्*
♦सन्धि:
तत: + दशाननात् - विसर्ग उकार:
अज: + तस्मै - विसर्गसकार:
तत् + श्रृत्वा - छत्वसन्धि:
श्रृत्वा + उवाच - गुणसन्धि:

न जायते इति अज: (ब्रह्मा)
विष्टरश्रवा: - महाविष्णु:
उवाच - *ब्रू* परस्मैपदि धातु: लिट् लकार प्रथमपुरुष:
_उवाच-ऊचतु:-ऊचु:_

*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_

*मूल श्लोक:*
*अलं भयेनात्मयोने ! गच्छ देवगणै: सह ।*
*अहं दाशरथिर्भूत्वा हनिष्यामि दशाननम् ॥१६॥*

*पदविभाग:*

अलं भयेन आत्मयोने ! गच्छ देवगणै: सह अहं दाशरथि: भूत्वा हनिष्यामि दशाननम्

*अन्वय:*

हे आत्मयोने ! अलं भयेन।   (त्वम् ) देवगणै: सह गच्छ । अहं दाशरथि: भूत्वा दशाननम् हनिष्यामि  ।

*तात्पर्यम्*

हे अज! भयम् मास्तु । त्वं देवगणै: सह गच्छ । अहं दशरथस्य पुत्ररूपेण जनित्वा दशाननं हनिष्यामि ।

*व्याकरणम्*
♦सन्धि:
भयेन + आत्मयोने - सवर्णदीर्घसन्धि:
दाशरथि: + भूत्वा - विसर्ग रेफ:

दशरथस्य अपत्यं पुमान् दाशरथि:
🏹🏹🏹🏹🏹🏹

~ ✍ *शरवण:*

*॥ श्रीरामोदन्त: ॥*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*आत्मांशैश्च सुरा: सर्वे भूमौ वानररूपिण: ।*
*जायेरन् मम साहाय्यं कर्तुं रावणनिग्रहे ॥१७॥*

*पदविभाग:*
आत्मांशै: च सुरा: सर्वे भूमौ वानररूपिण: जायेरन् मम साहाय्यं कर्तुं रावणनिग्रहे

*अन्वय:*

रावणनिग्रहे मम साहाय्यं कर्तुं सुरा: सर्वे आत्मांशै: च  भूमौ वानररूपिण: जायेरन् ।
*तात्पर्यम्*

सर्वे देवा: अपि  आत्मांशै: च भूमौ रावणनिग्रहे मम साहाय्यं कर्तुं वानररूपिण: (इव) जायेरन्  ।

व्याकरणम्
♦सन्धि:
आत्मांशै: + च - विसर्गसकार:

जायरेन् - जन् आत्मनेपदि धातु:
विधिलिङ् प्रथमपुरुष:
जायेत-जायेयाताम् -जायेरन्

मूल श्लोक:

एवमुक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः ।
पद्मयोनिस्तु गीर्वाणैः समं प्रायात्प्रहृष्टधीः ॥१८॥

पदविभाग:
एवम् उक्त्वा विधातारं तत्र एव अन्तर्दधे प्रभुः  पद्मयोनिः तु गीर्वाणैः समं प्रायात् प्रहृष्टधीः

अन्वय:
एवम् विधातारं उक्त्वा प्रभुः तत्र एव अन्तर्दधे । पद्मयोनिः तु प्रहृष्टधीः गीर्वाणैः समं प्रायात् ।

तात्पर्यम्
महाविष्णु: एवं समाधान वाक्यम उक्तवा तत्र एव अन्तर्गत: । महाविष्णो: वाक्येन सन्तुष्ट ब्रह्मा सन्तोषेण देवा: सह प्रायात् ।

व्याकरणम्
♦सन्धि:
पद्मयोनिः + तु - विसर्गसकार:

♦समास:
पद्मयोनिः - पद्मं योनि: यस्य स: बहुव्रीहि:

प्रायात् - या धातु: परस्मैपदि लङ लकार: प्रथमपुरुष:
_अयात्- अयाताम्- अयान्/अयु:_
प्र + अयात् = प्रायात्


No comments: