Sunday, January 21, 2018

श्रीविनायकस्तोत्रम् (समंत्रकम्)

वारणास्यो दरघ्नोऽर्थ एकदन्तश्शिवात्मजः ।
सुशर्मकृत्तारकोऽर्च्यः कविस्तत्पुरुषप्रियः ॥ १ ॥

देवः पवित्रेक्षणोर्द्यो दन्ती चारुस्त्रिलोचनः ।
वाग्मीशो मायातीतात्मा तापशोषाख्य आखुगः ॥ २ ॥

नन्दीवन्द्यो यमीशानो यशस्वी यशआस्पदः ।
दर्शनीयो विघ्नराजो विघ्नहा विघ्नकृद्विराट् ॥ ३ ॥

सभ्यो हृत्पद्मनिलयोऽत्पद्मरसपद्मविहापकः ।
रक्तांगोऽर्को हेममाली हेरम्बो हेमदंष्ट्रकः ॥ ४ ॥

स्वराट्प्रभा अजोऽनन्तो वरेण्यो मतिमान् गुणी ।
तीर्थकीर्तिर् वरकरः क्रत्वीशो हापितासुरः ॥ ५ ॥

कृपाकरो धूम्रकेतुस् तुं दिलो देववल्लभः ।
तपस्वीशस् तापहरो डाकिनीवारितोभयः ॥ ६ ॥

विश्र्वप्रियो यक्षवन्द्यो यष्टानयविवर्धनः ।
नानारुपो धीर आद्यो धीमतान्धीरकःसुधीः ॥ ७ ॥

यमीश्र्वरो महाहस्ती महात्मा मह उत्तमः ।
कर्ताऽकर्ता हितकरो हितज्ञो हितशासनः ॥ ८ ॥

स्तोता स्तव्यस् तं त्रमूलस्तन्त्रज्ञस्तन्त्रविग्रहः ।
त्रयीवंद्यो नोदनाद्यो नोदना नोदित द्विजः ॥ ९ ॥

मित्राभो मदनस्मेरो दन्ती मरुदुपासितः ।
दण्डो प्रमत्तः शास्तार्थस् तीर्थमिन्द्रःस्तुतोऽघहा ॥ १० ॥

सत्यसङ्घः प्रकाशात्मा प्रसन्नः प्रणतार्तिहा ।
मंत्रविद्या चोदितात्मा चोदनाचोदिताऽखिलः ॥ ११ ॥

त्रयीधर्मो दशातीतो दक्षोऽभेद उमासुतः ।
कं नः स देयात् प्रणुतोऽयात् स पायात्सदा भयात् ॥ १२ ॥  

॥ इति श्रीमत् परमहंस परिव्राजकाचार्य श्रेवासुदेवानन्दसरस्वतीविरचितं समन्त्रकं श्रीविनायक स्तोत्रं संपूर्णम् ॥

Saturday, January 6, 2018

आनन्दलहरी

॥ आनन्दलहरी ॥

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १॥

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः विशिष्यानाख्येयो भवति रसनामात्र विषयः ।
तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २॥

मुखे ते ताम्बूलं नयनयुगळे कज्जलकला ललाटे काश्मीरं विलसति गळे मौक्तिकलता ।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३॥

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी नदद्वीणानादश्रवणविलसत्कुण्डलगुणा
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४॥

नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।
तडित्पीता पीताम्बरललितमञ्जीरसुभगा ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५॥

हिमाद्रेः संभूता सुललितकरैः पल्लवयुता सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६॥

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७॥

विधात्री धर्माणां त्वमसि सकलाम्नायजननी त्वमर्थानां मूलं धनदनमनीयांघ्रिकमले ।
त्वमादिः कामानां जननि कृतकन्दर्पविजये सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ ८॥

प्रभूता भक्तिस्ते यदपि न ममालोलमनसः त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
पयोदः पानीयं दिशति मधुरं चातकमुखे भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९॥

कृपापाङ्गालोकं वितर तरसा साधुचरिते न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १०॥

महान्तं विश्वासं तव चरणपङ्केरुहयुगे निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११॥

अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं यथा रथ्यापाथः शुचि भवति गंगौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥ १२॥

त्वदन्यस्मादिच्छाविषयफललाभे न नियमः त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् ॥ १३॥

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४॥

निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।
महेशः प्राणेशस्तदवनिधराधीशतनये न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५॥

वृषो वृद्धो यानं विषमशनमाशा निवसनं श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः समग्रा सामग्री जगति विदितैव स्मररिपोः यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६॥

अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ १७॥

त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया भियैवासीद्गंगा जलमयतनुः शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिशः ॥ १८॥

विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९॥

वसन्ते सानन्दे कुसुमितलताभिः परिवृते स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।
सखीभिः खेलन्तीं मलयपवनान्दोलितजले स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २०॥

॥ इति श्रीमच्छङ्कराचार्यविरचिता आनन्दलहरी सम्पूर्णा ॥

Tuesday, January 2, 2018

गुरुदशकम्

गुरुदशकम्

रचयिता - जगद्गुरु शंकाराचार्य विजयन्द्र सरस्वती (काञ्चीपीठम्)।

श्रुति-स्मृति-पुराणोक्त-धर्ममार्गरतं गुरुम्।
भक्तानां हितवक्तारं नमस्ते चित्तशुद्धये।।१।।

अद्वैतानन्दभरितं साधूनाम् उपकारिणम्।
सर्वशास्त्रविदं शान्तं नमस्ते चित्तशुद्धये।।२।।

कर्म-भक्ति-ज्ञानमार्ग-प्रचारे बद्धकङ्कणम्।
अनुग्रहप्रदातारं नमस्ते चित्तशुद्धये  ।।३।।

भगवद्पाद-पादाम्बुज-विनिवेषित- चेतसः।
श्रीचन्द्रशेखरगुरो: प्रसादो मयि जायताम्।।४।।

क्षेत्रतीर्थ-कथाभिज्ञः सच्चिदानन्दविग्रहः।
चन्द्रशेखरवर्योमि सन्निधत्तां सदाहृदिम्।।५।।

पोषणे वेदशास्त्राणां दत्त चित्तमहर्निशम्।
क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम्।।६।।

वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः।
गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम्।।७।।

मणिवाचक गोदादि भक्ति वागमृतैर्भृशम्।
बालानां भगवद्भक्तिं वर्धयन्तं गुरुम् भजे।।८।।

लघूपदेशैर्नास्तिक्य-भावमर्दन-कोविदम्।
शिवम्! स्मितमुखम्! शान्तम्! प्रणतोस्मि जगद्गुरुम्।।९।।

विनयेन प्रार्थयेहं विद्यां बोधय मे गुरो!
मार्गमन्यं न जाने अहं भवन्तं शरणं गतः।।१०।।

Audio file/ध्वनिमुद्रिका

Sunday, November 26, 2017

💊👩🏻‍⚕ आधुनिकवैद्यपद्धतिः (एलोपथी)👨🏻‍⚕

आधुनिकवैद्यपद्धतिरिति योच्यते सा वस्तुतो वैदेशिकी वैद्यपद्धतिः अथवा पाश्चात्यचिकित्सापद्धतिरिति व्यवह्रियेत। या तु भारतीया वैद्यपद्धतिः साऽऽयुर्वेदसंज्ञया व्यवह्रियते । यथा चेयं संज्ञा सूचयति वैद्यकमिदमायुर्वेदनामकं न केवला चिकित्सापद्धतिः। किन्तु परिपूर्णो जीवनमार्गः। स्वस्थस्य स्वास्थ्यरक्षणमातुरविकारदूरीकरणात् प्राधान्यं लभते। किन्तु पाश्चात्या पद्धतिरसौ चिकित्सातत्त्वप्रधाना । होमियोपथीचिकित्सापद्धत्याः प्रादुर्भावानन्तरं तदुभयवैशेषिकसूचनात्मिकी एलोपथीसंज्ञा समभूदिति वस्तुस्थितिः। होमियो इत्यस्य समानतार्थः। पैथोस् इति उपतापार्थो ग्रीकशब्दः। उपतापसमानगुणवद्द्रव्योपदानाद् होमियोपथीति नाम। Similia similibus curantur अर्थात् समानः समानरोगशमनः इति हि तेषां राद्धान्तः। एलो इति विपरीतार्थकः शब्दः। अतश्च गदविपरीतगुणवद्द्रव्यप्रयोगहेतोः होमियोपथीभेदार्थवाचकः एलोपथीशब्दः । केवलं शब्दसादृश्यं गृह्णानाः प्रकृतिचिकित्सकाः पदव्युत्पत्तिसम्बन्धहीनं नाचुरोपथीशब्दं स्वीचक्रुः । वस्तुतस्तु हेतुव्याधिविपर्यस्तानां समानानामपि विपर्यस्तार्थकारिणामित्युभयेषाम् औषधान्नविहाराणामुपयोग आयुर्वेद उपदिश्यते ।
किन्त्वधुनातना बहवः पाश्चात्यपद्धत्याकृष्टमनसस्तस्या आधुनिकतां विचिन्तयन्तः प्राचीनां पद्धतिं तिरस्कुर्वन्ति। विवेचनशीलास्तु-
पुराणमित्येव न साधु सर्वं
न चापि काव्यं नवमित्यवद्यम्।
सन्तः समीक्ष्यान्यतरद् भजन्ते
मूढः परप्रत्ययनेयबुद्धिः ॥
इति प्रमाणमनुयान्तो देशकालावस्थादिभेदविचक्षणा उभयमपि यथासन्दर्भमुररीकुर्वन्ति ।

--डॉ॥ नारायणन् पि आयुर्वेदि।

Saturday, November 25, 2017

ವಲ್ಲೀಸನಾಥ ಕರಾವಲಂಬಮ್

ಹೇ ಸ್ವಾಮಿನಾಥ ಕರುಣಾಕರ ದೀನಬಂಧೋ,
ಶ್ರೀಪಾರ್ವತೀಶಮುಖಪಂಕಜ ಪದ್ಮಬಂಧೋ |
ಶ್ರೀಶಾದಿದೇವಗಣಪೂಜಿತಪಾದಪದ್ಮ,
ವಲ್ಲೀಸನಾಥ ಮಮ ದೇಹಿ ಕರಾವಲಂಬಮ್ || 1 ||

ದೇವಾದಿದೇವನುತ ದೇವಗಣಾಧಿನಾಥ,
ದೇವೇಂದ್ರವಂದ್ಯ ಮೃದುಪಂಕಜಮಂಜುಪಾದ |
ದೇವರ್ಷಿನಾರದಮುನೀಂದ್ರಸುಗೀತಕೀರ್ತೇ,
ವಲ್ಲೀಸನಾಥ ಮಮ ದೇಹಿ ಕರಾವಲಂಬಮ್ || 2 ||

ನಿತ್ಯಾನ್ನದಾನ ನಿರತಾಖಿಲ ರೋಗಹಾರಿನ್,
ತಸ್ಮಾತ್ಪ್ರದಾನ ಪರಿಪೂರಿತಭಕ್ತಕಾಮ |
ಶೃತ್ಯಾಗಮಪ್ರಣವವಾಚ್ಯನಿಜಸ್ವರೂಪ,
ವಲ್ಲೀಸನಾಥ ಮಮ ದೇಹಿ ಕರಾವಲಂಬಮ್ || 3 ||

ಕ್ರೌಂಚಾಸುರೇಂದ್ರ ಪರಿಖಂಡನ ಶಕ್ತಿಶೂಲ,
ಪಾಶಾದಿಶಸ್ತ್ರಪರಿಮಂಡಿತದಿವ್ಯಪಾಣೇ |
ಶ್ರೀಕುಂಡಲೀಶ ಧೃತತುಂಡ ಶಿಖೀಂದ್ರವಾಹ,
ವಲ್ಲೀಸನಾಥ ಮಮ ದೇಹಿ ಕರಾವಲಂಬಮ್ || 4 ||

ದೇವಾದಿದೇವ ರಥಮಂಡಲ ಮಧ್ಯ ವೇದ್ಯ,
ದೇವೇಂದ್ರ ಪೀಠನಗರಂ ದೃಢಚಾಪಹಸ್ತಮ್ |
ಶೂರಂ ನಿಹತ್ಯ ಸುರಕೋಟಿಭಿರೀಡ್ಯಮಾನ,
ವಲ್ಲೀಸನಾಥ ಮಮ ದೇಹಿ ಕರಾವಲಂಬಮ್ || 5 ||

ಹಾರಾದಿರತ್ನಮಣಿಯುಕ್ತಕಿರೀಟಹಾರ,
ಕೇಯೂರಕುಂಡಲಲಸತ್ಕವಚಾಭಿರಾಮ |
ಹೇ ವೀರ ತಾರಕ ಜಯಾಜ಼್ಮರಬೃಂದವಂದ್ಯ,
ವಲ್ಲೀಸನಾಥ ಮಮ ದೇಹಿ ಕರಾವಲಂಬಮ್ || 6 ||

ಪಂಚಾಕ್ಷರಾದಿಮನುಮಂತ್ರಿತ ಗಾಂಗತೋಯೈಃ,
ಪಂಚಾಮೃತೈಃ ಪ್ರಮುದಿತೇಂದ್ರಮುಖೈರ್ಮುನೀಂದ್ರೈಃ |
ಪಟ್ಟಾಭಿಷಿಕ್ತ ಹರಿಯುಕ್ತ ಪರಾಸನಾಥ,
ವಲ್ಲೀಸನಾಥ ಮಮ ದೇಹಿ ಕರಾವಲಂಬಮ್ || 7 ||

ಶ್ರೀಕಾರ್ತಿಕೇಯ ಕರುಣಾಮೃತಪೂರ್ಣದೃಷ್ಟ್ಯಾ,
ಕಾಮಾದಿರೋಗಕಲುಷೀಕೃತದುಷ್ಟಚಿತ್ತಮ್ |
ಭಕ್ತ್ವಾ ತು ಮಾಮವಕಳಾಧರ ಕಾಂತಿಕಾಂತ್ಯಾ,
ವಲ್ಲೀಸನಾಥ ಮಮ ದೇಹಿ ಕರಾವಲಂಬಮ್ || 8 ||

ಸುಬ್ರಹ್ಮಣ್ಯ ಕರಾವಲಂಬಂ ಪುಣ್ಯಂ ಯೇ ಪಠಂತಿ ದ್ವಿಜೋತ್ತಮಾಃ |
ತೇ ಸರ್ವೇ ಮುಕ್ತಿ ಮಾಯಾಂತಿ ಸುಬ್ರಹ್ಮಣ್ಯ ಪ್ರಸಾದತಃ |
ಸುಬ್ರಹ್ಮಣ್ಯ ಕರಾವಲಂಬಮಿದಂ ಪ್ರಾತರುತ್ಥಾಯ ಯಃ ಪಠೇತ್ |
ಕೋಟಿಜನ್ಮಕೃತಂ ಪಾಪಂ ತತ್‍ಕ್ಷಣಾದೇವ ನಶ್ಯತಿ ||

श्रीसरस्वतीस्तोत्रं इन्द्रकृतम्

॥ श्रीसरस्वतीस्तोत्रं इन्द्रकृतम्।।
shrISarasvatI Stotram by Indra ..

भृङ्गनील-नीलाञ्जनालका,
पद्मराग-गाङ्गेय-मौलिका ।
पूर्णचन्द्र-बिम्बोज्ज्वलानना,
श्रीसरस्वती मे प्रसीदतु ॥ १॥

फुल्लनेत्र-पङ्केरुहान्विता,
रत्नकॢप्त-ताटङ्क-भूषिता ।
चम्पक-प्रसूनाभ-नासिका,
श्रीसरस्वती मे प्रसीदतु ॥ २॥

दर्पण-प्रभा-गण्ड-मण्डला,
पल्लवाधरा दन्त-कुट्मला ।
मन्दहासिनी कम्बु-कन्धरा,
श्रीसरस्वती मे प्रसीदतु ॥ ३॥

दीर्घ-बाहुका चातिकोमला,
रत्न-कञ्चुका पीवर-स्तना ।
स्वर्ण-मौक्तिका कर्ण-भूषणा,
श्रीसरस्वती मे प्रसीदतु ॥ ४॥

मञ्जु-भाषणा चार्वलित्रयी,
सुन्दरोदरा निम्ननाभिका
लम्बितोदराधार-मेखला,
श्रीसरस्वती मे प्रसीदतु ॥ ५॥

सूक्ष्म-मध्यमा भूनितम्बिनी,
रत्नदन्ति-तुण्डोरु-मण्डिता ।
ब्रह्मदण्ड-जानु-द्वयान्विता,
श्रीसरस्वती मे प्रसीदतु ॥ ६॥

मारतूणि-काकार-जङ्घिका,
रत्न-किङ्किणी पादनूपुरा ।
कूर्मपृष्ठ-देशाङ्घ्रि-पृष्ठका,
श्रीसरस्वती मे प्रसीदतु ॥ ७॥

गूढगुल्फ-लावण्य-रञ्जिता,
चन्द्रिकांशुका श्वेतवर्णिनी।
बिन्दुवासिनी बैन्दव-प्रिया,
श्रीसरस्वती मे प्रसीदतु ॥ ८॥

कालिका-रमा-पार्श्व-सेविता,
वेदवेदिता भेदनाशिनी ।
निर्मलात्मिकाद्वैतरूपिणी,
श्रीसरस्वती मे प्रसीदतु ॥ ९॥

वासरालया भूसुरार्चिता,
गौतमी-नदी तीरवासिनी ।
ब्राह्मण-प्रियापार-वैभवा,
श्रीसरस्वती मे प्रसीदतु ॥ १०॥

इन्द्रेणैवं कृतं स्तोत्रं ये पठन्त्यनिशं तु ते ।
सरस्वती-प्रसादेन प्रपद्यन्तेऽष्टसिद्धिकाः ॥

॥ इति श्री-इन्द्रकृत-सरस्वती-स्तोत्रं ॥

Sunday, November 19, 2017

श्रीशारदावर्णमालास्तवः

॥ श्रीशारदावर्णमालास्तवः ॥

श्रीशिवापूज्यपादाब्जा श्रीकन्धरसहोदरी ।
श्रीधुतस्फटिका भूयात् श्रियै मे शारदाऽनिशम् ॥ १ ॥

शारदाभ्रसदृग्वस्त्रां नीलनीरदकुन्तलाम् ।
पारदां दुःखवाराशेः शारदां सततं भजे ॥ २ ॥

रत्नचित्रितभूषाढ्यां प्रत्नवाक्स्तुतवैभवाम् ।
नूत्नसारस्यदां वाणीं कृत्स्नज्ञानाप्तये स्तुमः ॥ ३ ॥

दाडिमीबीजरदनां दान्त्यादिगुणदायिनीम् ।
दानधिक्कृतकल्पद्रुं दासोऽहं नौमि शारदाम् ॥ ४ ॥

यैः सदा पूजिता ध्याता यैषा शृङ्गपुरस्थिता ।
शारदाम्बा लोकपूज्यास्त एव हि नरोत्तमाः ॥ ५ ॥

नमत्सुरीकैश्यगन्धलुब्धभ्रमरराजितम् ।
नतेष्टदानसुरभिं वाणीपादाम्बुजं स्तुमः ॥ ६ ॥

मस्तराजच्चन्द्रलेखा पुस्तशोभिकराम्बुजा ।
त्रस्तैणनयना वाणी ध्वस्ताघं मां तनोत्वरम् ॥ ७ ॥

शारदापादसरसीरुहसंसक्तचेसाम् ।
यतिनां रचितं स्तोत्रं पठतां शिवदायकम् ॥ ८ ॥

Video: https://youtu.be/BLrSw2m1UZ8

श्रीमहालक्ष्मीध्यानाष्टकम्

श्रीमहालक्ष्मीध्यानाष्टकम्
(मार्गशिरगुरुवारनिमित्तम्)
^^^^^^^^^^^^^^^^^^^^^
(१)
पद्मा पद्मधरा सुपद्मनिलया पद्मानना पद्मिनी
पद्माक्षी धनरत्नभूषितभुजा द‍ारिद्र्यविध्वंसिनी ।
माता ब्रह्ममयी समुद्रदुहिता विश्वेश्वरी वैष्णवी
पाहि त्वं कमले नमामि सततं संसाररक्षाकरी ॥१॥
(२)
लक्ष्मीर्भाग्यकरी महाधनकरी रूपाकरी भास्करी
साक्षात् पुण्यकरी जनोदयकरी प्रज्ञाकरी श्रीकरी ।
प्राणित्राणकरी दयासुखकरी रक्षाकरी श्रीहरी
भक्ताह्लादकरी चिदाकरकरी रात्नाकरी पातु नः ॥२॥
(३)
लक्ष्मीः कान्तिमयी महासुखमयी वात्सल्यनिष्ठामयी
शान्तिप्रीतिमयी सदा धनमयी दीक्षामयी शम्मयी ।
दिव्यज्ञानमयी क्षमागुणमयी भाषामयी भामयी
भक्तानन्दमयी कृपाकरमयी श्रद्धामयी पातु नः ॥३॥
(૪)
लक्ष्मीः पद्ममतिर्दयाकरवती ज्योतिष्मति मृद्वती
यापि ब्रह्मवती पराभगवती लीलावती श्रीसती ।
संपद्दानवती महारूपवती मायावती भूमती
सा श्रीर्विष्णुमती प्रजागणवती पद्मावती पातु नः ॥૪॥
(५)
या राष्ट्रस्य गृहे गृहे विहरते
दानाय नित्यं धनं
या पूते सदने सदा निवसते दातुं महासंपदम्।
या मन्त्रस्तवनैर्वशीभवति या भक्तप्रिया भक्तिदा
सा पायाद्धनदायिनी भगवती विष्णुप्रिया सर्वदा ॥५॥
(६)
यस्या मातृकृपाबलात्प्रतिदिनं खाद्यं लभन्ते जनाः
भिक्षूणामपि दुःखतां प्रचलति ख्याता भवन्ति क्षितौ ।
देवा यत्कृपया वसन्त्यपि दिवि प्राप्य सदा वैभवं
वन्दे तां धनदायिनीं कमलिनीं लक्ष्मीं दयासागरीम् ॥६॥
(७)
चण्डालस्य वधूर्यदीयकृपया लेभे महावैभवं
यत्तोषाद्-भुवनत्रयोपि लभते शान्तिं सुखं भोजनम्।
यन्नामस्मरणाद्-विभेति सततं
दैन्यं च दुःखं विपद्
वन्दे तां धनसागरीं धनकरीं लक्ष्मीं सरोजासनाम्॥७॥
(८)
चण्डालोपि यदीयवत्सलगुणं
लब्धुं क्षमो भूतले
स्वस्वामी कुरुतेपि भिक्षुकसमो भैक्ष्यं हि यत्कोपतः ।
यत्स्नेहप्रभवात् सुखं विलसति क्रोधात् विपत्तिर्जने
वन्दे तां जलजेक्षणां जलधिजां लक्ष्मीं जगद्व्यापिनीम् ॥८॥
                    सौजन्यम्
              नूतनध्यानमञ्जरी
                     रचयिता
          ( पं.श्री व्रजकिशोर त्रिपाठी)
=========================

श्री गुरुध्यानम्

॥ श्री गुरुध्यानम् ॥

अज्ञानध्वान्तविध्वंसिसहस्रकरतेजसम् ।
सच्चित्सुखात्मकब्रह्मनिविष्टहृदयाम्बुजम् ॥ १ ॥

पद्मासनोपविष्टञ्च ध्यानस्तिमितलोचनम् ।
समं कायशिरोग्रीवं धारयन्तं महाप्रभम् ॥ २ ॥

सहस्रकिरणस्पर्धिदेहकान्तिसमुज्ज्वलम् ।
निर्विकल्पसमाधिस्थं निश्चलावयवं शिवम् ॥ ३ ॥

देहादिब्रह्मपर्यन्ते भोग्ये तुच्छत्वधीयुतम् ।
आर्तानामार्तिहन्तारं जिज्ञासुविशयच्छिदम् ॥ ४ ॥

स्वावलोकनमात्रेण पुनानं निखिलं जगत् ।
मदीयहृत्सरोजातनिवेशितपदद्वयम् ।
विद्यातीर्थगुरूत्तंसं ध्यायामि भवमुक्तये ॥ ५ ॥

Video: https://youtu.be/mTWhy-sCC6Y

श्रीशारदागीतम्

॥ श्रीशारदागीतम् ॥

रचयिता :- जगद्गुरु श्रीमत् चन्द्रशेखरभारतीमहास्वमी
देवता :- श्रीशारदादेवी

मङ्गलं वरऋष्यशृङ्गनगरवासिनि ।
मङ्गलं सुरत्नभूषणालिभासिनि ॥

दन्तकान्तिनिर्धुताच्छकुन्दडम्बरे ।
शान्तचित्तसेव्यमानपादपङ्कजे ॥

शङ्करार्यरचितदिव्यचक्रमध्यगे ।
किङ्करायितामरेन्द्रमुख्यदेवते ॥

पादनम्रलोकसर्वकाञ्क्षितार्थदे ।
मोदमक्षयिष्णुमम्ब देहि शारदे ॥

॥ इति श्रीशारदागीतम् ॥

Video: https://www.youtube.com/watch?v=BCU_ttMGjrk

Lyrics: https://www.facebook.com/photo.php?fbid=1608503439421147&set=a.1601594460112045.1073741841.100007845182090&type=3&theater